Kanda 6 YK-125-Hanuma informs Bharata about Ramas return

अयोध्यां तु समालोक्य चिन्तयामास राघवः

चिन्तयित्वा हनूमन्तमुवाच प्लवगोत्तमम्

जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे

शृङ्गिबेरपुरं प्राप्य गुहं गहनगोचरम्

निषादाधिपतिं ब्रूहि कुशलं वचनान्मम

श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम्

भविष्यति गुहः प्रीतः ममात्मसमः सखा

अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य

निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः

भरतस्तु त्वया वाच्यः कुशलं वचनान्मम

सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम्

हरणं चापि वैदेह्या रावणेन बलीयसा

सुग्रीवेण संसर्गं वालिनश्च वधं रणे

मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया

लङ्घयित्वा महातोयमापगापतिमव्ययम्

उपयानं समुद्रस्य सागरस्य दर्शनम्

यथा कारितः सेतू रावणश्च यथा हतः

वरदानं महेन्द्रेण ब्रह्मणा वरुणेन

महादेवप्रसादाच्च पित्रा मम समागमम्

उपयातं मां सौम्य भरतस्य निवेदय

सह राक्षसराजेन हरीणां प्रवरेण

एतच्छुत्वा यमाकारं भजते भरतस्तदा

ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति

जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः

उपयाति समृद्धार्थः सह मित्रैर्महाबलैः

ज्ञेयाश्च सर्वे वृत्तान्ता भरतस्येङ्गितानि

तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन

सर्वकामसमृद्धं हि हस्त्यश्वरथसङ्कुलम्

पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः

सङ्गत्या भरतः श्रीमान् राज्यार्थी चेत् स्वयं भवेत्

प्रशास्तु वसुधां कृत्स्नामखिलां रघुनन्दनः

तस्य बुद्धिं विज्ञाय व्यवसायं वानर

यावन्न दूरं याताः स्म क्षिप्रमागन्तुमर्हसि

इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः

मानुषं धारयन् रूपमयोध्यां त्वरितो ययौ

अथोत्पपात वेगेन हनुमान् मारुतात्मजः

गरुत्मानिव वेगेन जिघृक्षन् भुजगोत्तमम्

गङ्गायमुनयोर्मध्यं सन्निपातमतीत्य

शृङ्गिबेरपुरं प्राप्य गुहमासाद्य वीर्यवान्

वाचा शुभया हृष्टो हनुमानिदमब्रवीत्

सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः

सहसीतः ससौमित्रिः त्वां कुशलमब्रवीत्

पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः

भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम्

एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः

उत्पपात महावेगो वेगवानविचारयन्

गोमतीं तां सोऽपश्यद्भीमं सालवनं तथा

प्रजाश्च बहुसाहस्राः स्फीतान् जनपदानपि

गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः

आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपगान्

स्त्रीभिः सपुत्रैर्वृद्धैश्च रममाणैरलङ्कृतान्

सुराधिपस्योपवने यथा चैत्ररथे द्रुमान्

क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम्

ददर्श भरतं दीनं कृशमाश्रमवासिनम्

जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम्

फलमूलाशिनं दान्तं तापसं धर्मचारिणम्

समुन्नतजटाभारं वल्कलाजिनवाससम्

नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम्

पादुके ते पुरस्कृत्य शासन्तं वै वसुन्धराम्

चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात्

उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः

बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः

हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम्

परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलम्

तं धर्ममिव धर्मज्ञं देहवन्तमिवापरम्

उवाच प्राञ्जलिर्वाक्यं हनुमान् मरुतात्मजः

वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम्

अनुशोचसि काकुत्स्थं त्वां कुशलमब्रवीत्

प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम्

अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः

निहत्य रावणं रामः प्रतिलभ्य मैथिलीम्

उपयाति समृद्धार्थः सह मित्रैर्महाबलैः

लक्ष्मणश्च महातेजा वैदेही यशस्विनी

सीता समग्रा रामेण महेन्द्रेण यथा शची

एवमुक्तो हनुमता भरतो भ्रातृवत्सलः

पपात सहसा हृष्टो हर्षान्मोहं जगाम

ततो मुहूर्तादुत्थाय प्रत्याश्वस्य राघवः

हनुमन्तमुवाचेदं भरतः प्रियवादिनम्

अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात्

सिषेच भरतः श्रीमान् विपुलैरस्त्रबिन्दुभिः

देवो वा मानुषो वा त्वमनुक्रोशादिहागतः

प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम्

गवां शतसहस्रं ग्रामाणां शतं परम्

सुकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश

हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः

सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः

निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदद्भुतोपमम्

प्रहर्षितो रामदिदृक्षयाऽभवत् पुनश्च हर्षादिदमब्रवीद्वचः