Kanda 6 YK-021-Rama becomes angry at the ocean

अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः

बाहुं भुजगभोगाभमुपधायारिसूदनः

जातरूपमयैश्चैव भूषणैर्भूषितं पुरा

वरकाञ्चनकेयूरमुक्ताप्रवरभूषणैः

भुजैः परमनारीणामभिमृष्टमनेकधा

चन्दनागरुभिश्चैव पुरस्तादधिवासितम्

बालसूर्यप्रतीकाशैश्चन्दनैरुपशोभितम्

शयने चोत्तमाङ्गेन सीतायाः शोभितं पुरा

तक्षकस्येव सम्भोगं गङ्गाजलनिषेवितम्

संयुगे युगसङ्काशं शत्रूणां शोकवर्द्धनम्

सुहृदानन्दनं दीर्घं सागरान्तव्यपाश्रयम्

अस्यता पुनः सव्यं ज्याघातविगतत्वचम्

दक्षिणो दक्षिणं बाहुं महापरिघसन्निभम्

गोसहस्रप्रदातारमुपधाय महद्भुजम्

अद्य मे मरणं वाऽथ तरणं सागरस्य वा

इति रामो मतिं कृत्वा महाबाहुर्महोदधिम्

अधिशिश्ये विधिवत् प्रयतो नियतो मुनिः

तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले

नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः

त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः

उपासत तदा रामः सागरं सरितां पतिम्

दर्शयते मन्दस्तदा रामस्य सागरः

प्रयतेनापि रामेण यथार्हमभिपूजितः

समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः

समीपस्थमुवाचेदं लक्ष्मणं शुभलक्षणम्

अवलेपः समुद्रस्य दर्शयति यत्स्वयम्

प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता

असामर्थ्यं फलन्त्येते निर्गुणेषु सतां गुणाः

आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम्

सर्वत्रोत्सृष्टदण्डं लोकः सत्कुरुते नरम्

साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः

प्राप्तुं लक्ष्मण लोकेऽस्मिन् जयो वा रणमूर्द्धनि

अद्य मद्बाणनिर्भिन्नैर्मकरैर्मकरालयम्

निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः

महाभोगानि मत्स्यानां करिणां करानिह

भोगिनां पश्य नागानां मया छिन्नानि लक्ष्मण

सशङ्खशुक्तिकाजालं समीनमकरं शरैः

अद्य युद्धेन महता समुद्रं परिशोषये

क्षमया हि समायुक्तं मामयं मकरालयः

असमर्थं विजानाति धिक् क्षमामीदृशे जने

दर्शयति साम्ना मे सागरो रूपमात्मनः

चापमानय सौमित्रे शरांश्चाशीविषोपमान्

सागरं शोषयिष्यामि पद्भ्यां यान्तु प्लवङ्गमाः

अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम्

वेलासु कृतमर्यादं सहसोर्मिसमाकुलम्

निर्मर्यादं करिष्यामि सायकैर्वरुणालयम्

महार्णवं क्षोभयिष्ये महादानवसङ्कुलम्

एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः

बभूव रामो दुर्द्धर्षो युगान्ताग्निरिव ज्वलन्

सम्पीड्य धनुर्घोरं कम्पयित्वा शरैर्जगत्

मुमोच विशिखानुग्रान् वज्रानिव शतक्रतुः

ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः

प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम्

तोयवेगः समुद्रस्य सनक्रमकरो महान्

सम्बभूव महाघोरः समारुतरवस्तदा

महोर्मिमालाविततः शङ्खशुक्तिसमावृतः

सधूमपरिवृत्तोर्मिः सहसाऽऽसीन्महोदधिः

व्यथिताः पन्नगाश्चासन् दीप्तास्या दीप्तलोचनाः

दानवाश्च महावीर्याः पातालतलवासिनः

ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा

बिन्ध्यमन्दरसङ्काशाः समुत्पेतुः सहस्रशः

आघूर्णिततरङ्गौघः सम्भ्रान्तोरगराक्षसः

उद्वर्तितमहाग्राहः संवृत्तः सलिलाशयः

ततस्तु तं राघवमुग्रवेगं प्रकर्षमाणं धनुरप्रमेयम्

सौमित्रिरुत्पत्य समुच्छ्वसन्तं मा मेति चोक्त्वा धनुराललम्बे