Kanda 6 YK-020-Ravana sends Shuka to Sugreeva as an ambassador

ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम्

ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान्

तां दृष्ट्वा सर्वतो व्यग्रं प्रतिगम्य राक्षसः

प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत्

एष वानरऋक्षौघो लङ्कां समभिवर्तते

अगाधश्चाप्रमेयश्च द्वितीय इव सागरः

पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ

उत्तमायुधसम्पन्नौ सीतायाः पदमागतौ

एतौ सागरमासाद्य सन्निविष्टौ महाद्युती

बलमाकाशमावृत्य सर्वतो दशयोजनम्

तत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि

तव दूता महाराज क्षिप्रमर्हन्त्यवेक्षितुम्

उपप्रदानं सान्त्वं वा भेदो वाऽत्र प्रयुज्यताम्

उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः

शुकं नाम तदा रक्षो वाक्यमर्थविदां वरम्

सुग्रीवं ब्रूहि गत्वा त्वं राजानं वचनान्मम

यथासन्देशमक्लीबं श्लक्ष्णया परया गिरा

त्वं वै महाराजकुलप्रसूतो महाबलश्चर्क्षरजस्सुतश्च

कश्चिदर्थस्तव नास्त्यनर्थस्तथा हि मे भ्रातृसमो हरीश

अहं यद्यहरं भार्यां राजपुत्रस्य धीमतः

किं तत्र तव सुग्रीव किष्किन्धां प्रति गम्यताम्

हीयं हरिभिर्लङ्का शक्या प्राप्तुं कथञ्चन

देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः

तथा राक्षसेन्द्रेण सन्दिष्टो रजनीचरः

शुको विहङ्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम्

संस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत्

सर्वमुक्तं यथादिष्टं रावणेन दुरात्मना

तं प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः

प्रापद्यन्त दिवं क्षिप्रं लोप्तुं हन्तुं मुष्टिभिः

तैः प्लवङ्गैः प्रसभं निगृहीतो निशाचरः

गगनाद्भूतले चाशु परिगृह्य निपातितः

वानरैः पीड्यमानस्तु शुको वचनमब्रवीत्

दूतान् घ्रन्ति काकुत्स्थ वार्यन्तां साधु वानराः

यस्तु हित्वा मतं भर्तुः स्वमतं सम्प्रभाषते

अनुक्तवादी दूतः सन् दूतो वधमर्हति

शुकस्य वचनं श्रुत्वा रामस्तु परिदेवितम्

उवाच मा वधिष्ठेति घ्नतः शाखामृगर्षभान्

पत्रलघुर्भूत्वा हरिभिर्दर्शिते भये

अन्तरिक्षस्थितो भूत्वा पुनर्वचनमब्रवीत्

सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम

किं मया खलु वक्तव्यो रावणो लोकरावणः

एवमुक्तः प्लवगाधिपस्तदा प्लवङ्गमानामृषभो महाबलः

उवाच वाक्यं रजनीचरस्य चारं शुकं तूर्णमदीनसत्त्वः

मेऽसि मित्रं तथाऽनुकम्प्यो चोपकर्ताऽसि मे प्रियोऽसि

अरिश्च रामस्य सहानुबन्धः मेऽसि वालीव वधार्ह वध्यः

निहन्म्यहं त्वां ससुतं सबन्धुं सज्ञातिवर्गं रजनीचरेश

लङ्कां सर्वां महता बलेन क्षिप्रं करिष्यामि समेत्य भस्म

अन्तर्हितः सूर्यपथं गतो वा तथैव पातालमनुप्रविष्टः

तस्य ते त्रिष्टु लोकेषु पिशाचं राक्षसम्

त्रातारमनुपश्यामि गन्धर्वं चासुरम्

अवधीर्यज्जरावृद्धमक्षम किं जटायुषम्

किं नु ते रामसान्निध्ये सकाशे लक्ष्मणस्य वा

हृता सीता विशालाक्षी यां त्वं गृह्य बुद्ध्यसे

महाबलं महात्मानं दुर्द्धर्षममरैरपि

बुद्ध्यसे रघुश्रेष्ठं यस्ते प्राणान् हरिष्यति

ततोऽब्रवीद्वालिसुतस्त्वङ्गदो हरिसत्तमः

तुलितं हि बलं सर्वमनेनात्रैव तिष्ठता

गृह्यतां मा गमल्लङ्कामेतद्धि मम रोचते

ततो राज्ञा समादिष्टाः समुत्प्लुत्य वलीमुखाः

जगृहुश्च बबन्धुश्च विलपन्तमनाथवत्

व्याक्रोशत महात्मानं रामं दशरथात्मजम्

लुप्येते मे बलात्पक्षौ भिद्येते तथाऽक्षिणी

एतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम्

सर्वं तदुपपद्येथा जह्यां चेद्यदि जीवितम्

नाघातयत्तदा रामः श्रुत्वा तत्परिदेवनम्

वानरानब्रवीद्रामो मुच्यतां दूत आगतः