Kanda 6 YK-019-Vibhishana seeks refuge at the feet of Rama

विभीषणो महापाज्ञो भूमिं समवलोकयन्

खात्पपातावनीं हृष्टो भक्तैरनुचरैः सह

तु रामस्य धर्मात्मा निपपात विभीषणः

पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः

अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः

धर्मयुक्तं युक्तं साम्प्रतं सम्प्रहर्षणम्

अनुजो रावणस्याहं तेन चाप्यवमानितः

भवन्तं सर्वभूतानां शरण्यं शरणागतः

परित्यक्ता मया लङ्का मित्राणि धनानि वै

भवद्गतं मे राज्यं जीवितं सुखानि

तस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत्

वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव

आख्याहि मम तत्त्वेन राक्षसानां बलाबलम्

एवमुक्तस्तदा रक्षो रामेणाक्लिष्टकर्मणा

रावणस्य बलं सर्वमाख्यातुमुपचक्रमे

अवध्यः सर्वभूतानां गन्धर्वासुररक्षसाम्

राजपुत्र दशग्रीवो वरदानात् स्वयम्भुवः

रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान्

कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि

राम सेनापतिस्तस्य प्रहस्तो यदि वा श्रुतः

कैलासे येन सङ्ग्रामे मणिभद्रः पराजितः

बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि

धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित्

सङ्ग्रामसमयव्यूहे तर्पयित्वा हुताशनम्

अन्तर्धानगतः शत्रूनिन्द्रजिद्धन्ति राघव

महोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः

अनीकस्थास्तु तस्यैते लोकपालसमा युधि

दशकोटिसहस्राणि राक्षसां कामरूपिणाम्

मांसशोणितभक्षाणां लङ्कापुरनिवासिनाम्

तैस्तु सहितो राजा लोकपालानयोधयत्

सह देवैस्तु ते भग्ना रावणेन महात्मना

विभीषणवचः श्रुत्वा रामो दृढपराक्रमः

अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत्

यानि कर्मापदानानि रावणस्य विभीषण

आख्यातानि तत्त्वेन ह्यवगच्छामि तान्यहम्

अहं हत्वा दशग्रीवं सप्रहस्तं सबान्धवम्

राजानं त्वां करिष्यामि सत्यमेतद् ब्रवीमि ते

रसातलं वा प्रविशेत् पातालं वापि रावणः

पितामहसकाशं वा मे जीवन् विमोक्ष्यते

अहत्वा रावणं सङ्ख्ये सपुत्रबलबान्धवम्

अयोध्यां प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे

श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः

शिरसाऽऽवन्द्य धर्मात्मा वक्तुमेवोपचक्रमे

राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणम्

करिष्यामि यथाप्राणं प्रवेक्ष्यामि वाहिनीम्

इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम्

अब्रवील्लक्ष्णणं प्रीतः समुद्राज्जलमानय

तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम्

राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद

एवमुक्तस्तु सौमित्रिरभ्याषिञ्चद्विभीषणम्

मध्येवानरमुख्यानां राजानं राजशासनात्

तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः

प्रचुक्रुशुर्महात्मानं साधु साध्विति चाब्रुवन्

अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम्

कथं सागरमक्षोभ्यं तराम वरुणालयम्

सैन्यैः परिवृताः सर्वे वानराणां महौजसाम्

तराम तरसा सर्वे ससैन्या वरुणालयम्

एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः

समुद्रं राघवो राजा शरणं गन्तुमर्हति

खानितः सगरेणायमप्रमेयो महोदधिः

कर्तुमर्हति रामस्य ज्ञात्वा कार्यं महामतिः

एवं विभीषणेनोक्तो राक्षसेन विपश्चिता

आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः

ततश्चाख्यातुमारेभे विभीषणवचः शुभम्

सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम्

प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत

लक्ष्मणं महातेजाः सुग्रीवं हरीश्वरम्

सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच

विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते

ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते

सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः

उभाभ्यां सम्प्रधार्यार्थं रोचते यत्तदुच्यताम्

एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ

समुदाचारसंयुक्तमिदं वचनमूचतुः

किमर्थं नौ नरव्याघ्र रोचिष्यति राघव

विभीषणेन यच्चोक्तमस्मिन् काले सुखावहम्

अबद्ध्वा सागरे सेतुं घोरेऽस्मिन् वरुणालये

लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः

अलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम्

यथा सैन्येन गच्छामः पुरीं रावणपालिताम्

एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः

संविवेश तदा रामो वेद्यामिव हुताशनः