Kanda 6 YK-018-Vibhishana joins as an associate in Rama s side

अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य

प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम्

ममापि तु विवक्षाऽस्ति काचित्प्रति विभीषणम्

श्रोतुमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः

मित्रभावेन सम्प्राप्तं त्यजेयं कथञ्चन

दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम्

सुग्रीवस्त्वथ तद्वाक्यमाभाष्य विमृश्य

ततः शुभतरं वाक्यमुवाच हरिपुङ्गवः

सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः

ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत्

को नाम भवेत्तस्य यमेष परित्यजेत्

ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्ष्णम्

इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः

अनधीत्य शास्त्राणि वृद्धाननुपसेव्य

शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः

अस्ति सूक्ष्मतरं किञ्चिद्यदत्र प्रतिभाति मे

प्रत्यक्षं लौकिकं वापि विद्यते सर्वराजसु

अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः

व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः

अपापास्तत्कुलीनाश्च मानयन्ति स्वकान् हितान्

एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः

तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु

वयं तत्कुलीनाश्च राज्यकाङ्क्षी राक्षसः

पण्डिता हि भविष्यन्ति तस्माद्ग्राह्यो विभीषणः

प्रवादश्च महानेष ततोऽस्य भयमागतम्

इति भेदं गमिष्यन्ति तस्माद्ग्राह्यो विभीषणः

सर्वे भ्रातरस्तात भवन्ति भरतोपमाः

मद्विधा वा पितुः पुत्राः सुहृदो वा भवद्विधाः

एवमुक्तस्तु रामेण सुग्रीवः सहलक्ष्मणः

उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत्

रावणेन प्रणिहितं तमवेमि विभीषणम्

तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर

राक्षसो जिह्मया बुद्ध्या सन्दिष्टोऽयमिहागतः

प्रहर्तुं त्वयि विश्वस्ते प्रच्छन्नो मयि वाऽनघ

लक्ष्मणे वा महाबाहो वध्यः सचिवैः सह

रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः

एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः

वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत्

सुग्रीवस्य तु तद्वाक्यं रामः श्रुत्वा विमृश्य

ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम्

सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः

सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथञ्चन

पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान्

अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर

श्रूयते हि कपोतेन शत्रुः शरणमागतः

अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः

हि तं प्रतिजग्राह भार्याहर्तारमागतम्

कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः

ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा

शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना

बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम्

हन्यादानृशंस्यार्थमपि शत्रुं परन्तप

आर्तो वा यदि वा दृप्तः परेषां शरणागतः

अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना

चेद्भयाद्वा मोहाद्वा कामाद्वापि रक्षति

स्वया शक्त्या यथासत्त्वं तत्पापं लोकगर्हितम्

विनष्टः पश्यतस्तस्यारक्षिणः शरणागतः

आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः

एवं दोषो महानत्र प्रपन्नानामरक्षणे

अस्वर्ग्यं चायशस्यं बलवीर्यविनाशनम्

करिष्यामि यथार्थं तु काण्डोर्वचनमुत्तमम्

धर्मिष्ठं यशस्यं स्वर्ग्यं स्यात्तु फलोदये

सकृदेव प्रपन्नाय तवास्मीति याचते

अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम

आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया

विभीषणो वा सुग्रीव यदि वा रावणः स्वयम्

रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः

प्रत्यभाषत काकुत्स्थं सौहार्देन प्रचोदितः

किमत्र चित्रं धर्मज्ञ लोकनाथ सुखावह

यत्त्वमार्यं प्रभाषेथाः सत्त्ववान् सत्पथे स्थितः

मम चाप्यन्तरात्माऽयं शुद्धं वेत्ति विभीषणम्

अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः

तस्मात् क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव

विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः

ततस्तु सुग्रीववचो निशम्य तद्धरीश्वरेणाभिहितं नरेश्वरः

विभीषणेनाशु जगाम सङ्गमं पतत्रिराजेन यथा पुरन्दरः