Kanda 6 YK-015-Indrajit criticizes Vibhishana

बृहस्पतेस्तुल्यमतेर्वचस्तन्निशम्य यत्नेन विभीषणस्य

ततो महात्मा वचनं बभाषे तत्रेन्द्रजिन्नैर्ऋतयोधमुख्यः

किं नाम ते तात कनिष्ठवाक्यमनर्थकं चैव सुभीतवच्च

अस्मिन् कुले योऽपि भवेन्न जातः सोऽपीदृशं नैव वदेन्न कुर्यात्

सत्त्वेन वीर्येण परक्रमेण शौर्येण धैर्येण तेजसा

एकः कुलेऽस्मिन् पुरुषो विमुक्तो विभीषणस्तात कनिष्ठ एषः

किं नाम तौ राक्षस राजपुत्रावस्माकमेकेन हि राक्षसेन

सुप्राकृतेनापि रणे निहन्तुं शक्यौ कुतो भीषयसे स्म भीरो

त्रिलोकनाथो ननु देवराजः शक्रो मया भूमितले निविष्टः

भयार्दिताश्चापि दिशः प्रपन्नाः सर्वे तथा देवगणाः समग्राः

ऐरावतो विस्वरमुन्नदन् निपातितो भूमितले मया तु

विकृष्य दन्तौ तु मया प्रसह्य वित्रासिता देवगणाः समग्राः

सोऽहं सुराणामपि दर्पहन्ता दैत्योत्तमानामपि शोकदाता

कथं नरेन्द्रात्मजयोर्न शक्तो मनुष्ययोः प्राकृतयोः सुवीर्यः

अथेन्द्रकल्पस्य दुरासदस्य महौजसस्तद्वचनं निशम्य

ततो महार्थं वचनं भभाषे विभीषणः शस्त्रभृतां वरिष्ठः

तात मन्त्रे तव निश्चयोऽस्ति बालस्त्वमद्याप्यविपक्वबुद्धिः

तस्मात्त्वया ह्यात्मविनाशनाय वचोऽर्थहीनं बहुविप्रलप्तम्

पुत्रप्रवादेन तु रावणस्य त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः

यस्येदृशं राघवतो विनाशं निशम्य मोहादनुमन्यसे त्वम्

त्वमेव वध्यश्च सुदुर्मतिश्च चापि वध्यो इहानयत्त्वाम्

बालं दृढं साहसिकं योऽद्य प्रावेशयन्मन्त्रकृतां समीपम्

मूढः प्रगल्भोऽविनयोपपन्नस्तीक्ष्णस्वभावोऽल्पमतिर्दुरात्मा

मूर्खस्त्वमत्यन्तसुदुर्मतिश्च त्वमिन्द्रजिद् बालतया ब्रवीषि

को ब्रह्मदण्डप्रतिमप्रकाशानर्चिष्मतः कालनिकाशरूपान्

सहेत बाणान् यमदण्डकल्पान् समक्षमुक्ताद् युधि राघवेण

धनानि रत्नानि विभूषणानि वासांसि दिव्यानि मणींश्च चित्रान्

सीतां रामाय निवेद्य देवीं वसेम राजन्निह वीतशोकाः