Kanda 6 YK-014-Vibhishana informs about the power of Rama s arrow

निशाचरेन्द्रस्य निशम्य वाक्यं कुम्भकर्णस्य गर्जितानि

विभीषणो राक्षसराजमुख्यमुवाच वाक्यं हितमर्थयुक्तम्

वृतो हि बाह्वन्तरभोगराशिश्चिन्ताविषः सुस्मिततीक्ष्णदंष्ट्रः

पञ्चाङ्गुलीपञ्चशिरोऽतिकायः सीतामहाहिस्तव केन राजन्

यावन्न लङ्कां समभिद्रवन्ति वलीमुखाः पर्वतकूटमात्राः

दंष्ट्रायुधाश्चैव नखायुधाश्च प्रदीयतां दाशरथाय मैथिली

यावन्न गृह्णन्ति शिरांसि बाणा रामेरिता राक्षसपुङ्गवानाम्

वज्रोपमा वायुसमानवेगाः प्रदीयतां दाशरथाय मैधिली

भित्त्वा तावत् प्रविशन्ति कायं प्राणान्तिकास्तेऽशनितुल्यवेगाः

शिताः शरा राघव विप्रमुक्ताः प्रहस्त तेनैव विकत्थसे त्वम्

कुम्भकर्णेन्द्रजितौ राजा तथा महापार्श्वमहोदरौ वा

निकुम्भकुम्भौ तथाऽतिकायः स्थातुं शक्ता युधि राघवस्य

जीवंस्तु रामस्य मोक्ष्यसे त्वं गुप्तः सवित्राप्यथवा मरुद्भिः

वासवस्याङ्कगतो मृत्योर्नभो पातालमनुप्रविष्टः

निशम्य वाक्यं तु विभीषणस्य ततः प्रहस्तो वचनं बभाषे

नो भयं विद्म दैवतेभ्यो दानवेभ्यो ह्यथवा कुतश्चित्

यक्षगन्धर्वमहोरगेभ्यो भयं सङ्ख्ये पतगोत्तमेभ्यः

कथं नु रामाद् भविता भयं नो नरेन्द्रपुत्रात् समरे कदाचित्

प्रहस्तवाक्यं त्वहितं निशम्य विभीषणो राजहितानुकाङ्क्षी

ततो महात्मा वचनं बभाषे धर्मार्थकामेषु निविष्टबुद्धिः

प्रहस्त राजा महोदरश्च त्वं कुम्भकर्णश्च यथाऽर्थजातम्

ब्रवीथ रामं प्रति तन्न शक्यं यथा गतिः स्वर्गमधर्मबुद्धेः

वधस्तु रामस्य मया त्वया वा प्रहस्त सर्वैरपि राक्षसैर्वा

कथं भवेदर्थविशारदस्य महार्णवं तर्तुमिवाप्लवस्य

धर्मप्रधानस्य महारथस्य इक्ष्वाकुवंशप्रभवस्य राज्ञः

प्रहस्त देवाश्च तथाविधस्य कृत्येषु शक्तस्य भवन्ति मूढाः

तीक्ष्णा नता यत्तव कङ्कपत्रा दुरासदा राघवविप्रमुक्ताः

भित्त्वा शरीरं प्रविशन्ति बाणाः प्रहस्त तेनैव विकत्थसे त्वम्

रावणो नातिबलस्त्रिशीर्षो कुम्भकर्णोऽस्य सुतो निकुम्भः

चेन्द्रजिद्दाशरथिं प्रसोढुं त्वं वा रणे शक्रसमं समर्थाः

देवान्तको वापि नरान्तको वा तथातिकायोऽतिरथो महात्मा

अकम्पनश्चाद्रिसमानसारः स्थातुं शक्ता युधि राघवस्य

अयं हि राजा व्यसनाभिभूतो मित्रैरमित्रप्रतिमैर्भवद्भिः

अन्वास्यते राक्षसनाशनार्थे तीक्ष्णः प्रकृत्या ह्यसमीक्ष्यकारी

अनन्तभोगेन सहस्रमूर्ध्ना नागेन भीमेन महाबलेन

बलात्परिक्षिप्तमिमं भवन्तो राजानमुत्क्षिप्य विमोचयन्तु

यावद्धि केशग्रहणात् सुहृद्भिः समेत्य सर्वैः परिपूर्णकामैः

निगृह्य राजा परिरक्षितव्यो भृतैर्यथा भीमबलैर्गृहीतः

संहारिणा राघवसागरेण प्रच्छाद्यमानस्तरसा भवद्भिः

युक्तस्त्वयं तारयितुं समेत्य काकुत्स्थपातालमुखे पतन् सः

इदं पुरस्यास्य सराक्षसस्य राज्ञश्च पथ्यं ससुहृज्जनस्य

सम्यग्घि वाक्यं स्वमतं ब्रवीमि नरैन्द्रपुत्राय ददाम पत्नीम्

परस्य वीर्यं स्वबलं बुद्ध्वा स्थानं क्षयं चैव तथैव वृद्धिम्

तथा स्वपक्षेऽप्यनुमृश्य बुद्ध्या वदेत् क्षमं स्वामिहितं मन्त्री