Kanda 6 YK-008-All demons eulogising their strengths

ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः

अब्रवीत् प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा

देवदानवगन्धर्वाः पिशाचपतगोरगाः

त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे

सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता

हि मे जीवतो गच्छेज्जीवन् वनगोचरः

सर्वां सागरपर्यन्तां सशैलवनकाननाम्

करोम्यवानरां भूमिमाज्ञापयतु मा भवान्

रक्षां चैव विधास्यामि वानराद्रजनीचर

नागमिष्यति ते दुःखं किञ्चिदात्मापराधजम्

अब्रवीत्तु सुसङ्क्रुद्धो दुर्मुखो नाम राक्षसः

इदं क्षमणीयं हि सर्वेषां नः प्रधर्षणम्

अयं परिभवो भूयः पुरस्यान्तःपुरस्य

श्रीमतो राक्षसेन्द्रस्य वानरेण प्रधर्षणम्

अस्मिन् मुहूर्ते हत्वैको निवर्तिष्यामि वानरान्

प्रविष्टान् सागरं भीममम्बरं वा रसातलम्

ततोऽब्रवीत् सुसङ्क्रुद्धो वज्रदंष्ट्रो महाबलः

प्रगृह्य परिघं घोरं मांसशोणितरूषितम्

किं वो हनुमता कार्यं कृपणेन तपस्विना

रामे तिष्ठति दुर्धर्षे ससुग्रीवे सलक्ष्मणे

अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम्

आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम्

इदं ममापरं वाक्यं शृणु राजन् यदीच्छसि

उपाय कुशलो ह्येव जयेच्छत्रूनतन्द्रितः

कामरूपधराः शूराः सुभीमा भीमदर्शनाः

राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः

काकुत्स्थमुपसङ्गम्य बिभ्रतो मानुषं वपुः

सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम्

ततो वयमितस्तूर्णं शूलशक्तिगदाधरः

चापबाणासिहस्ताश्च त्वरितास्तत्र याम

आकाशे गणशः स्थित्वा हत्वा तां हरिवाहिनीम्

अश्मशस्त्रमहावृष्ट्या प्रापयाम यमक्षयम्

एवं चेदुपसर्पेतामनयं रामसक्ष्मणौ

अवश्यमपनीतेन जहतामेव जीवितम्

कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान्

अब्रवीत् परमक्रुद्धो रावणं लोकरावणम्

अहमेको हनिष्यामि राघवं सहलक्ष्मणम्

सुग्रीवं हनूमन्तं सर्वानेव वानरान्

ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः

क्रुद्धः परिलिहन् वक्त्रं जिह्वया वाक्यमब्रवीत्

स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः

एकोऽहं भक्षयिष्यामि तान् सर्वान् हरियूथपान्

स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तो मधुवारुणीम्

अहमेको वधिष्यामि सुग्रीवं सहलक्ष्मणम्

अङ्गदं हनूमन्तं रामं रणकुञ्जरम्