Kanda 6 YK-007-The demons inspire Ravana

द्विषत्पक्षमविज्ञाय नीतिबाह्यास्त्वबुद्धयः

राजन् परिघशक्त्यृष्टिशूलपट्टिशसङ्कुलम्

सुमहन्नो बलं कस्माद्विषादं भजते भवान्

त्वया भोगवतीं गत्वा निर्जिताः पन्नगा युधि

कैलासशिखरावासी यक्षैर्बहुभिरावृतः

सुमहत् कदनं कृत्वा वश्यस्ते धनदः कृतः

महेश्वरसख्येन श्लाघमानस्त्वया विभो

निर्जितः समरे रोषाल्लोकपालो महाबलः

विनिहत्य यक्षौघान् विक्षोभ्य विगृह्य

त्वया कैलासशिखराद्विमानमिदमाहृतम्

मयेन दानवेन्द्रेण त्वद्भयात् सख्यमिच्छता

दुहिता तव भार्यार्थे दत्ता राक्षसपुङ्गव

दानवेन्द्रो मधुर्नाम वीर्योत्सिक्तो दुरासदः

विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः

निर्जितास्ते महाबाहो नागा गत्वा रसातलम्

वासुकिस्तक्षकः शङ्खो जटी वशमाहृताः

अक्षया बलवन्तश्च शूरा लब्धवराः पुनः

त्वया संवत्सरं युद्ध्वा समरे दानवा विभो

देवलोकमितो गत्वा शक्रश्चापि विनिर्जितः]

शूराश्च बलवन्तश्च वरुणस्य सुता रणे

निर्जितास्ते महाबाहो चतुर्विधबलानुगाः

मृत्युदण्डमहाग्राहं शाल्मलिद्रुममण्डितम्

कालपाशमहावीचिं यमकिङ्करपन्नगम्

अवगाह्य त्वया राजन् यमस्य बलसागरम्

जयश्च विपुलः प्राप्तो मृत्युश्च प्रतिषेधितः

सुयुद्धेन ते सर्वे लोकास्तत्र विलोलिताः

क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः

आसीद्वसुमती पूर्णा महद्भिरिव पादपैः

तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे

प्रसह्य ते त्वया राजन् हताः परमदुर्जयाः

तिष्ठ वा किं महाराज श्रमेण तव वानरान्

अयमेको महाबाहुरिन्द्रजित् क्षपयिष्यति

अनेन हि महाराज माहेश्वरमनुत्तमम्

इष्ट्वा यज्ञं वरो लब्धो लोके परमदुर्लभः

शक्तितोमरमीनं विनिकीर्णान्त्रशैवलम्

गजकच्छपसम्बाधमश्वमण्डूकसङ्कुलम्

रुद्रादित्यमहाग्राहं मरुद्वसुमहोरगम्

रथाश्वगजतोयौघं पदातिपुलिनं महत्

अनेन हि समासाद्य देवानां बलसागरम्

गृहीतो दैवतपतिर्लङ्कां चापि प्रवेशितः

पितामहनियोगाच्च मुक्तः शम्बरवृत्रहा

गतस्त्रिविष्टपं राजन् सर्वदेवनमस्कृतः

तमेवं त्वं महाराज विसृजेन्द्रजितं सुतम्

यावद्वानरसेनां तां सरामां नयति क्षयम्

राजन्नापदयुक्तेयमागता प्राकृताज्जनात्

हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम्