Kanda 6 YK-005-Sri Rama recollects the lotus-eyed Seetha

सा तु नीलेन विधिवत् स्वारक्षा सुसमाहिता

सागरस्योत्तरे तीरे साधु सेना निवेशिता

मैन्दश्च द्विविदश्चोभौ तत्र वानरपुङ्गवौ

विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम्

निविष्टायां तु सेनायां तीरे नदनदीपतेः

पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत्

शोकश्च किल कालेन गच्छता ह्यपगच्छति

मम चापश्यतः कान्तामहन्यहनि वर्धते

मे दुःखं प्रिया दूरे मे दुःखं हृतेति वा

एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते

वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश

त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः

तन्मे दहति गात्राणि विषं पीतमिवाशये

हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत्

तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा

रात्रिन्दिवं शरीरं मे दह्यते मदनाग्निना

अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना

कथञ्चित् प्रज्वलन् कामः मा सुप्तं जले दहेत्

बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम्

यदहं सा वामोरूरेकां धरणिमाश्रितौ

केदारस्येव केदारः सोदकस्य निरूदकः

उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम्

कदा नु खलु सुश्रोणीं शतपत्रायतेक्षणाम्

विजित्य शत्रून् द्रक्ष्यामि सीतां स्फीतामिव श्रियम्

कदा नु चारु बिम्बोष्ठं तस्याः पद्ममिवाननम्

ईषदुन्नम्य पास्यामि रसायनमिवातुरः

तस्यास्तु संहतौ पीनौ स्तनौ तालफलोपमौ

कदा नु खलु सोत्कम्पौ श्लिष्यन्त्या मां भजिष्यतः

सा नूनमसितापाङ्गी रक्षोमध्यगता सती

मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति

कथं जनकराजस्य दुहिता सा मम प्रिया

राक्षसीमध्यगा शेते स्नुषा दशरथस्य

कदाऽविक्षोभ्यरक्षांसि सा विधूयोत्पतिष्यति

विधूय जलदान्नीलान् शशिरेखा शरत्स्विव

स्वभावतनुका नूनं शोकेनानशनेन

भूयस्तनुतरा सीता देशकालविपर्ययात्

कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान्

सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसम्

कदा नु खलु मां साध्वी सीता सुरसुतोपमा

सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं पयः

कदा शोकमिमं घोरं मैथिलीविप्रयोगजम्

सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा

एवं विलपतस्तस्य तत्र रामस्य धीमतः

दिनक्षयान्मन्दरुचिर्भास्करोऽस्तमुपागमत्

आश्वासितो लक्ष्मणेन रामः सन्ध्यामुपासत

स्मरन् कमलपत्राक्षीं सीतां शोकाकुलीकृतः