Kanda 6 YK-003-Rama requests Hanuma to describe Lanka in detail

सुग्रीवस्य वचः श्रुत्वा हेतुमत् परमार्थवित्

प्रतिजग्राह काकुत्स्थो हनुमन्तमथाब्रवीत्

तपसा सेतुबन्धेन सागरोच्छोषणेन वा

सर्वथा सुसमर्थोऽस्मि सागरस्यास्य लङ्घने

कति दुर्गाणि दुर्गाया लङ्काया ब्रूहि तानि मे

ज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर

बलस्य परिमाणं द्वारदुर्गक्रियामपि

गुप्तिकर्म लङ्कायां रक्षसां सदनानि

यथासुखं यथावच्च लङ्कायामसि दृष्टवान्

सर्वमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि

श्रुत्वा रामस्य वचनं हनूमान् मारुतात्मजः

वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत्

श्रूयतां सर्वमाख्यास्ये दुर्गकर्मविधानतः

गुप्ता पुरी यथा लङ्का रक्षिता यथा बलैः

परां समृद्धिं लङ्कायाः सागरस्य भीमताम्

विभागं बलौघस्य निर्देशं वाहनस्य

एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्त्वतः

महती रथसम्पूर्णा रक्षोगणसमाकुला

वाजिभिश्च सुसम्पूर्णा सा पुरी दुर्गमा परैः

दृढबद्धकवाटानि महापरिधवन्ति

द्वाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति

तत्रेषूपलयन्त्राणि बलवन्ति महान्ति

आगतं परसैन्यं तु तत्र तैः प्रतिहन्यते

द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः

शतशो रचिता वीरैः शतघ्न्यो रक्षसां गणैः

सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः

मणिविद्रुमवैडूर्यमुक्ताविरचितान्तरः

सर्वतश्च महाभीमाः शीततोयवहाः शुभाः

अगाधा ग्राहवत्यश्च परिखा मीनसेविताः

द्वारेषु तासां चत्वारः सङ्क्रमाः परमायताः

यन्त्रैरुपेता बहुभिर्महद्भिर्गृहपङ्क्तिभिः

त्रायन्ते सङ्क्रमास्तत्र परसैन्यागमे सति

यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः

एकस्त्वकम्प्यो बलवान् सङ्क्रमः सुमहादृढः

काञ्चनैर्बहुभिस्स्तम्भैर्वेदिकाभिश्च शोभितः

स्वयं प्रकृतिसम्पन्नो युयुत्सू राम रावणः

उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने

लङ्का पुनर्निरालम्बा देवदुर्गा भयावहा

नादेयं पार्वतं वान्यं कृत्रिमं चतुर्विधम्

स्थिता पारे समुद्रस्य दूरपारस्य राघव

नौपथोऽपि नास्त्यत्र निरादेशश्च सर्वतः

शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा

वाजिवारणसम्पूर्णा लङ्का परमदुर्जया

परिखाश्च शतघ्न्यश्च यन्त्राणि विविधानि

शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः

अयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम्

शूलहस्ता दुराधर्षा सर्वे खड्गाग्रयोधिनः

नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम्

चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः

प्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम्

चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः

न्यर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम्

रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः

शतशोऽथ सहस्राणि मध्यमं स्कन्धमाश्रिताः

यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम्

ते मया सङ्क्रमा भग्राः परिखाश्चावपूरिताः

दग्धा नगरी लङ्का प्राकाराश्चावसादिताः

बलैकदेशः क्षपितो राक्षसानां महात्मनाम्

येन केन मार्गेण तराम वरुणालयम्

हतेति नगरी लङ्का वानरैरवधार्यताम्

अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः

नीलः सेनापतिश्चैव बलशेषेण किं तव

सपर्वतवनां भित्त्वा सखातां सप्रतोरणाम्

सप्राकारां सभवनामानयिष्यन्ति राघव

एवमाज्ञापय क्षिप्रं बलानां सर्वसङ्ग्रहम्

मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय