Kanda 6 YK-001-Rama appreciates Hanuma and embraces him

श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम्

रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत्

कृतं हनुमता कार्यं सुमहद्भुवि दुर्लभम्

मनसाऽपि यदन्येन शक्यं धरणीतले

हि तं परिपश्यामि यस्तरेत महार्णवम्

अन्यत्र गरुडाद्वायोरन्यत्र हनूमतः

को विशेत् सुदुराधर्षां राक्षसैश्च सुरक्षिताम्

यो वीर्यबलसम्पन्नो समः स्याद्धनूमतः

भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत्

स्वयं विधाय स्वबलं सदृशं विक्रमस्य

यो हि भृत्यो नियुक्तस्सन् भर्त्रा कर्मणि दुष्करे

कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम्

नियिक्तो यः परं कार्यं कुर्यान्नृपतेः प्रियम्

भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम्

नियुक्तो नृपतेः कार्यं कुर्याद्यः समाहितः

भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम्

तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता

चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः

अहं रघुवंशश्च लक्ष्मणश्च महाबलः

वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः

इदं तु मम दीनस्य मनो भूयः प्रकर्षति

यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम्

एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः

मया कालमिमं प्राप्य दत्तश्चास्तु महात्मनः

इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे

हनूमन्तं महात्मानं कृतकार्यमुपागतम्

ध्यात्वा पुनरुवाचेदं वचनं रघुनन्दनः

हरीणामीश्वरस्यैव सुग्रीवस्योपशृण्वतः

सर्वथा सुकृतं तावत् सीतायाः परिमार्गणम्

सागरं तु समासाद्य पुनर्नष्टं मनो मम

कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः

हरयो दक्षिणं पारं गमिष्यन्ति समाहिताः

यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम

समुद्रपारगमने हरीणां किमिवोत्तरम्

इत्युक्त्वा शोकसम्भ्रान्तो रामः शत्रुनिबर्हणः

हनुमन्तं महाबाहुस्ततो ध्यानमुपागमत्