Kanda 5 SK-063-Dadhimukha reports Madhuvana destruction to Sugreeva

ततो मूर्ध्ना निपतितं वानरं वानरर्षभः

दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच

उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम

अभयं ते भवेद्वीर सर्वमेवाभिधीयताम्

तु विश्वासितस्तेन सुग्रीवेण महात्मना

उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत्

नैवर्क्षरजसा राजन्न त्वया नापि वालिना

वनं निसृष्टपूर्वं हि भक्षितं तच्च वानरैः

एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः

मधून्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति

शिष्टमत्रापविध्यन्ति भक्षयन्ति तथाऽपरे

निवार्यमाणास्ते सर्वे भ्रूवौ वै दर्शयन्ति हि

इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः

वारयन्तो वनातस्मात् क्रुद्वैर्वानरपुङ्गवैः

ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभः

संरक्तनयनैः क्रोधाद्धरयः प्रविचालिताः

पाणिभिर्निहताः केचित् केचिज्जानुभिराहताः

प्रकृष्टाश्च यथाकामं देवमार्गं दर्शिताः

एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि

कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते

एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम्

अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा

किमयं वानरो राजन् वनपः प्रत्युपस्थितः

कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत्

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना

लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः

आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः

अङ्गदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः

विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः

नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः

आगतैश्च प्रमथितं यथा मधुवनं हि तैः

धर्षितं वनं कृत्स्नमुपयुक्तं वानरैः

दृष्टा देवी सन्देहो चान्येन हनूमता

ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः

कार्यसिद्धिर्मतिश्चैव तस्मिन् वानरपुङ्गवे

व्यवसायश्च वीर्यं श्रुतं चापि प्रतिष्ठितम्

जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः

हनूमांश्चाप्यधिष्ठाता तस्य गतिरन्यथा

अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल

वारयन्तश्च सहितास्तथा जानुभिराहताः

एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह

नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः

दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः

अभिगम्य तथा सव- ? पिबन्ति मधु वानराः

चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ

वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः

श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम्

प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः

श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य

वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत

प्रीतोऽस्मि सोऽहं युद्भुक्तं वनं तैः कृतकर्मभिः

मर्षितं मर्षणीयं चेष्टितं कृतकर्मणाम्

इच्छामि शीघ्रं हनुमत्प्रधानान् शाखामृगांस्तान् मगृहराजदर्पान्

द्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं सीताधिगमे प्रयत्नम्

प्रीतिस्पीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां राजा

अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा बाह्वोरासन्नां सोऽतिमात्रं ननन्द