Kanda 5 SK-062-Dadhimukha departs to Kishkindha

अव्यग्रमनसो यूयं मधु सेवत वानराः

अहमावारयिष्यामि युष्माकं परिपन्थिनः

श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः

प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु

अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया

अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम्

अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः

साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन्

पूजयित्वाऽङ्गदं सर्वे वानरा वानरर्षभम्

जग्मुर्मधुवनं यत्र नदीवेगा इव द्रुतम्

ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः

अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा मैथिलीम्

पपुः सर्वे मधु तदा रसवत् फलमाददुः

उत्पत्य ततः सर्वे वनपालान् समागतान्

ताडयन्ति स्म शतशः सक्तान् मधुवने तदा

मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते

पिबन्ति सहिताः सर्वे निघ्नन्ति स्म तथाऽपरे

केचित्पीत्वाऽपविध्यन्ति मधूनि मधुपिङ्गलाः

मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः

अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः

अत्यर्थं मदग्लानाः पर्णान्यास्तीर्य शेरते

उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत्

क्षिपन्ति तदाऽन्योन्यं स्खलन्ति तथाऽपरे

केचित् क्ष्वेलां प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत्

हरयो मधुना मत्ताः केचित् सुप्ता महीतले

कृत्वा केचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत्

कृत्वा केचिद्वदन्त्यन्ये केचिद्बुद्ध्यन्ति चेतरत्

येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु

तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः

जानुभिस्तु प्रकृष्टाश्च देवमार्गं प्रदर्शिताः

अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः

हनूमता दत्तवरैर्हतं मधुवनं बलात्

वयं जानुभिः कृष्टा देवमार्गं दर्शिताः

ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः

हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन्

इहागच्छत गच्छामो वानरान् बलदर्पितान्

बलेन वारयिष्यामो मधु भक्षयतो वयम्

श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः

पुनर्वीरा मधुवनं तेनैव सहसा ययुः

मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम्

समभ्यधावद्वेगेन ते सर्वे प्लवङ्गमाः

ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः

गृहीत्वाऽभ्यगमन् क्रुद्धा यत्र ते कपिकुञ्जराः

ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत्

त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः

वृक्षस्थांश्च तलस्थांश्च वानरान् बलदर्पितान्

अभ्यक्रामंस्ततो वीराः पालास्तत्र सहस्रशः

अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः

अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा

तं सवृक्षं महाबाहुमापतन्तं महाबलम्

आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः

मदान्धश्च वेदैनमार्यकोऽयं ममेति सः

अथैनं निष्पिपेषाशु वेगवद्वसुधातले

भग्नबाहूरुभुजो विह्वलः शोणितोक्षितः

मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः

समाश्वस्य सहसा सङ्क्रुद्धो राजमातुलः

वानरान् वारयामास दण्डेन मधुमोहितान्

कथञ्चिद्विमुक्तस्तैर्वानरैर्वानरर्षभः

उवाचैकान्तमाश्रित्य भृत्यान् स्वान् समुपागतान्

एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः

सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति

सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवे

अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान्

इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः

पितृपैतामहं दिव्यं देवैरपि दुरासदम्

वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः

घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान्

वध्या ह्येते दुरात्मानो नृपाज्ञापरिभाविनः

अमर्षप्रभवो रोषः सफलो नो भविष्यति

एवमुक्त्वा दधिमुखो वनपालान् महाबलः

जगाम सहसोत्पत्य वनपालैः समन्वितः

निमेषान्तरमात्रेण हि प्राप्तो वनालयः

सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः

रामं लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव

समप्रतिष्ठां जगतीमाकाशान्निपपात

सन्निपत्य महावीर्यः सर्वैस्तैः परिवारितः

हरिर्दधिमुखः पालैः पालानां परमेश्वरः

दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम्

सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत्