Kanda 5 SK-061-Monkeys took halt at Madhuvana

ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः

अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः

प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरस्सराः

महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः

मेरुमन्दरसङ्काशा मत्ता इव महागजाः

छादयन्त इवाकाशं महाकाया महाबलाः

सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम्

हनूमन्तं महावेगं वहन्त इव दृष्टिभिः

राघवे चार्थनिर्वृत्तिं कर्तुं परमं यशः

समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः

प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः

सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः

प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः

नन्दनोपममासेदुर्वनं द्रुमलतायुतम्

यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम्

अधृष्यं सर्वभूतानां सर्वभूतमनोहरम्

यद्रक्षति महावीर्यः सदा दधिमुखः कपिः

मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः

ते तद्वनमुपागम्य बभूवुः परमोत्कटाः

वानरा वानरेन्द्रस्य मनः कान्ततमं महत्

ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत्

कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः

ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान् कपीन्

अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे

मुदिताः प्रेरिताश्चापि प्रनृत्यन्तोऽभवंस्ततः\*

अङ्गदेनानुमतास्सन्तस्ततो मुदिताः तत्प्रेरिताः प्रनृत्यन्तोऽभवन्

गायन्ति केचित् प्रणमन्ति केचिन्नृत्यन्ति केचित् प्रहसन्ति केचित्

पतन्ति केचिद्विचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित्

परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते

परस्परं केचिदुपब्रुवन्ते परस्परं केचिदुपारमन्ते

द्रुमाद् द्रुमं केचिदभिद्रवन्ते क्षितौ नगाग्रान्निपतन्ति केचित्

महीतलात् केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति

गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति

रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदन्नुपैति

समाकुलं तत्कपिसैन्यमासीन्मधुप्रपानोत्कटसत्त्वचेष्टम्

चात्र कश्चिन्न बभूव मत्तो चात्र कश्चिन्न बभूव तृप्तः

ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान्

समीक्ष्य कोपदृधिवक्रनामा निवारयामास कपिः कपींस्तान्

तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः

चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः

उवाच कांश्चित् परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जवान

समेत्य कैश्चित् कलहं चकार तथैव साम्नोपजगाम कंश्चित्

तैर्मदात् सम्परिवार्य वाक्यैर्बलाच्च तेन प्रतिवार्यमाणैः

प्रधर्षितस्त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम्

नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समापयन्तः

मदात् कपिं तं कपयः समग्रा महावनं निर्विषयं चक्रुः