Kanda 5 SK-060-Jambavan s wise guidelines

तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत

अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः

समीपं गन्तुमस्माभी राघवस्य महात्मनः

दृष्टा देवी न चानीता इति तत्र निवेदनम्

अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः

न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे

तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः

तेष्वेवं हतवीरेषु राक्षसेषु हनूमता

किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम्

तमेवं कृतसङ्कल्पं जाम्बवान् हरिसत्तमः

उवाच परमप्रीतो वाक्यमर्थवदर्थवित्

न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र

यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धम्