Kanda 5 SK-059-Hanuma describes the plight of Seetha to his fellow monkeys

एतदाख्याय तत्सर्वं हनुमान् मारुतात्मजः

भूयः समुपचक्राम वचनं वक्तुमुत्तरम्

शीलमासाद्य सीताया मम प्रवणं मनः

सर्वथाऽतिप्रवृद्धोऽसौ रावणो राक्षसाधिपः

तस्य तां स्पृशतो गात्रं तपसा विनाशितम्

तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती

जनकस्यात्मजा कुर्याद्यत् क्रोधकलुषीकृता

जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन्

अस्मिन्नेवङ्गते कार्ये भवतां निवेदिते

न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ

अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्

तां लङ्कां तपसा हन्तुं रावणं महाबलम्

किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः

कृतास्त्रैः प्लवगैः शूरैर्भवद्भिर्विजयैषिभिः

अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम्

सहपुत्रं वधिष्यामि सहोदरयुतं युधि

ब्राह्ममैन्द्रं रौद्रं वायव्यं वारुणं तथा

यदि शक्रजितोऽस्त्राणि दुर्निरीक्षाणि संयुगे

तान्यहं विधामिष्यामि निहनिष्यामि राक्षसान्

भवतामभ्यनुज्ञातो विक्रमो मे रुणाद्धि तम्

मयाऽतुला विसृष्टा हि शैलवृष्टिर्निरन्तरा

देवानपि रणे हन्यात् किं पुनस्तान्निशाचरान्

सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि

जाम्बवन्तं समरे कम्पयेदरिवाहिनी

सर्वराक्षससङ्घानां राक्षसा ये पूर्वकाः

अलमेको विनाशाय वीरो वालिसुतः कपिः

पनसस्योरुवेगेन नीलस्य महात्मनः

मन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः

सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु

मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा

अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ

एतयोः प्रतियोद्धारं पश्यामि रणाजिरे

पितामहवरोत्सेकात् परमं दर्पमास्थितौ

अमृतप्राशिनावेतौ सर्ववानरसत्तमौ

अश्विनोर्माननार्थं हि सर्वलोकपितामहः

सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा

करोत्सेकेन मुक्तौ प्रमथ्य महतीं चमूम्

सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ

एतावेव हि सङ्क्रुद्धौ सवाजिरथकुञ्जराम्

लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः

मयैव निहता लङ्कां दग्धा भस्मीकृता पुनः

राजमार्गेषु सर्वत्र नाम विश्रावितं मया

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः

राजा जयति सुग्रीवो राघवेणाभिपालितः

अहं कोसलराजस्य दासः पवनसम्भवः

हनुमानिति सर्वत्र नाम विश्रावितं मया

अशोकवनिकामध्ये रावणस्य दुरात्मनः

अधस्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता

मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा

अचिन्तयन्ती वैदेही रावणं बलदर्पितम्

पतिव्रता सुश्रोणी अवष्टब्धा जानकी

अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा

अनन्यचित्ता रामे पौलोमीव पुरन्दरे

तदेकवासः संवीता रजोध्वस्ता तथैव

शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता

सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः

राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने

एकवेणीधरा दीना भर्तृचिन्तापरायणा

अधः शय्या विवर्णाङ्गी पद्मिनीव हिमागमे

रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया

कथञ्चिन्मृगशावाक्षी विश्वासमुपपादिता

ततः सम्भाषिता चैव सर्वमर्थं दर्शिता

रामसुग्रीवसख्यं श्रुत्वा प्रीतिमुपागता

यन्न हन्ति दशग्रीवं महात्मा कृतागसम्

निमित्तमात्रं रामस्तु वधे तस्य भविष्यति

सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता

प्रतिपत्पाठशीलस्य विद्येव तनुतां गता

एवमास्ते महाभागा सीता शोकपरायणा

यदत्र प्रतिकर्तव्यं तत्सर्वमुपपद्यताम्