Kanda 5 SK-058-Jambavan requests Hanuma to narrate clearly the happenings

ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः

हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम्

तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम्

जाम्बवान् कार्यवृत्तान्तमष्टच्छदनिलात्मजम्

कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते

तस्यां वा कथंवृत्तः क्रूरकर्मा दशाननः

तत्त्वतः सर्वमेतन्नः प्रबूहि त्वं महाकपे

श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम्

यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान्

रक्षितव्यं यत्तत्र तद्भवान् व्याकरोतु नः

नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः

प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत

प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः

उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः

गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत्

काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम्

स्थितं पन्थानमावृत्य मेने विघ्नं तं नगम्

उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम्

कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति

प्रहतं मया तस्य लाङ्गूलेन महागिरेः

शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा

व्यवसायं तं बुद्ध्वा होवाच महागिरिः

पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव

पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः

मैनाकमिति विख्यातं निवसन्तं महोदधौ

पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः

छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः

श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः

चिच्छेद भगवान् पक्षान् वज्रेणैषां सहस्रशः

अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना

मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे

रामस्य मया साह्ये वर्तितव्यमरिन्दम

रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः

एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः

कार्यमावेद्य तु गिरेरुद्यतं मनो मम

चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता

शरीरेण महाशैलः शैलेन महोदधौ

उत्तमं जवमास्थाय शेषं पन्थानमास्थितः

ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि

ततः पश्याम्यहं देवीं सुरसां नागमातरम्

समुद्रमध्ये सा देवी वचनं मामभाषत

मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम

अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे

एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः

विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम्

रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्

लक्ष्मणेन सह भ्रात्रा सीतया परन्तपः

तस्य सीता हृता भार्या रावणेन दुरात्मना

तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्

कर्तुमर्हसि रामस्य साहाय्यं विषये सती

अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्

आगमिष्यामि ते वक्त्रं सत्यं प्रतिश्रृणोमि ते

एवमुक्ता मया सा तु सुरसा कामरूपिणी

अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम

ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु

मत्प्रमाणानुरूपं व्यादितं तु मुखं तया

तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः

तस्मिन् मुहूर्ते पुनर्बभूवाङ्गुष्ठमात्रकः

अभिपत्याशु तद्वक्रं निर्गतोऽहं ततः क्षणात्

अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः

समानय वैदेहीं राघवेण महात्मना

सुखी भव महाबाहो प्रीताऽस्मि तव वानर

ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः

ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा

छाया मे निगृहीता पश्यामि किञ्चन

सोऽहं विगतवेगस्तु दिशो दश विलोकयन्

किञ्चित्तत्र पश्यामि येन मेऽपहृता गतिः

ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम

ईदृशो विघ्न उत्पन्नो रूपं यत्र दृश्यते

अधोभागे मे दृष्टिः शोचता पातिता मया

ततोऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम्

प्रहस्य महानादमुक्तोऽहं भीमया तया

अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम्

क्वासि यन्ता महाकाय क्षुधिताया ममेप्सितः

भक्षः प्रीणय मे देहं चिरमाहारवर्जितम्

आस्य प्रमाणादधिकं तस्याः कायमपूरयम्

तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे

मां साधु बुबुधे मम वा निकृतं कृतम्

ततोऽहं विपुलं रूपं सङ्क्षिप्य निमिषान्तरात्

तस्या हृदयमादाय प्रपतामि नभःस्थलम्

सा विसृष्टभुजा भीमा पपात लवणाम्भसि

मया पर्वतसङ्काशा निकृत्तहृदया सती

श्रृणोमि खगतानां सिद्धानां चारणैः सह

राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता

तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन्

गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम्

अस्तं दिनकरे याते रक्षसां निलयं पुरम्

प्रविष्टोऽहमविज्ञातो रक्षोभि र्भीमविक्रमैः

तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा

अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः

जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम्

सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम्

प्रदोषकाले प्रविशं भीतयाऽहं तयोदितः

अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते

यस्मात्तस्माद्विजेतासि सर्व रक्षांस्यशेषतः

तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम्

रावणान्तःपुरगतो चापश्यं सुमध्यमाम्

ततः सीतामपश्यंस्तु रावणस्य निवेशने

शोकसागरमासाद्य पारमुपलक्षये

शोचता मया दृष्टं प्राकारेण समावृतम्

काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम्

प्राकारमवप्लुत्य पश्यामि बहुपादपम्

अशोकवनिकामध्ये शिंशुपापादपो महान्

तमारुह्य पश्यामि काञ्चनं कदलीवनम्

अदूरे शिंशुपावृक्षात् पश्यामि वरवर्णिनीम्

श्यामां कमलपत्राक्षीमुपवासकृशाननाम्

तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम्

शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम्

राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम्

मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव

सामया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः

एकवेणीधरा दीना भर्तृचिन्तापरायणा

रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया

कथञ्चिन्मृगशावाक्षी तूर्णमासादिता मया

तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम्

तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः

ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम्

शृणोम्यधिकगम्भीरं रावणस्य निवेशने

ततोऽहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन्

अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः

ततो रावणदाराश्च रावणश्च महाबलः

तं देशं समनुप्राप्त यत्र सीताऽभवत् स्थिता

तद् दृष्ट्वाऽथ वरारोहा सीता रक्षोमहाबलम्

सङ्कुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य

वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः

त्राणं किञ्चिदपश्यन्तीं वेपमानां तपस्विनीम्

तामुवाच दशग्रीवः सीतां परमदुःखिताम्

अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति

यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते

द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव

एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः

उवाच परमक्रुद्धा सीता वचनमुत्तमम्

इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य

अवाच्यं वदतो जिह्वा कथं पतिता तव

किञ्चिद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ

अपहृत्यागतः पाप तेनादृष्टो महात्मना

त्वं रामस्य सदृशो दास्येऽप्यस्य युज्यसे

यज्ञीयः सत्यवादी रणश्लाघी राघवः

जानक्या परुषं वाक्यमेवमुक्तो दशाननः

जज्वाल सहसा कोपच्चितास्थ इव पावकः

विवर्त्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम्

मैथिलीं हन्तुमारब्धः स्त्रीभिर्हा हा कृतं तदा

स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः

वरा मण्डोदरी नाम तया प्रतिषेधितः

उक्तश्च मधुरां वाणीं तया मदानार्दितः

सीतया तव किं कार्यं महेन्द्रसमविक्रम

देवगन्दर्वकान्याभिर्यक्षकन्याभिरेव

सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि

ततस्ताभिः समेताभिर्नारीभिः महाबलः

प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः

याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः

सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः

तृणवद्भाषितं तासां गणयामास जानकी

गर्जितं तदा तासां सीतां प्राप्य निरर्थकम्

वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः

रावणाय शशंसुस्ताः सीताध्यवसितं महत्

ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः

परिक्षिप्य समन्तात्तां निद्रावशमुपागताः

तासु चैव प्रसुप्तासु सीता भर्तृहिते रता

विलप्य करुणं दीना प्रशुशोच सुदुःखिता

तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत्

आत्मानं खादत क्षिप्रं सीता विनशिष्यति

जनकस्यात्मजा साध्वी स्नुषा दशरथस्य

स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः

रक्षसां विनाशाय भर्तुरस्या जयाय

अलमस्मात् परित्रातुं राघवाद्राक्षसीगणम्

अभियाचाम वैदेहीमेतद्धि मम रोचते

यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते

सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम्

प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा

ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता

अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः

तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम्

चिन्तयामास विक्रान्तो मे निर्वृतं मनः

सम्भाषणाथ मया जानक्याश्चिन्तितो विधिः

इक्ष्वाकूणां हि वशस्तु ततो मम पुरस्कृतः

श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम्

प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना

कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव

का रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि

देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः

सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः

तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम्

भर्त्राऽहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा

इदं पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम्

अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि

तदिच्छामि त्वयाऽऽज्ञप्तं देवि किं करवाण्यहम्

रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम्

एतच्छ्रुत्वा विदित्वा सीता जनकनन्दिनी

आह रावणमुत्साद्य राघवो मां नयत्विति

प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम्

राघवस्य मनोह्लादमभिज्ञानमयाचिषम्

अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः

मणिर्येन महाबाहू रामस्त्वां बहुमन्यते

इत्यक्त्वा तु वरारोहा मणिप्रवरमद्भुतम्

प्रायच्छत् परमोद्विग्ना वाचा मां सन्दिदेश

ततस्तस्यै प्रणम्याहं राजपुत्र्यैः समाहितः

प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः

उत्तरं पुनरेवेदं निश्चित्य मनसा तया

हनुमन् मम वृत्तान्तं वक्तुमर्हसि राघवे

यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ

सुग्रीवसहितौ वीरावुपेयातां तथा कुरु

यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम

मां द्रक्ष्यति काकुत्स्थो म्रिये साऽहमनाथवत्

तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत

उत्तरं मया दृष्टं कार्यशेषमनन्तरम्

ततोऽवर्धत मे कायस्तदा पर्वतसन्निभः

युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे

तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम्

प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः

मां दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः

ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे

राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना

वानरेण ह्यविज्ञाय तव वीर्यं महाबल

दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः

वधमाज्ञापय क्षिप्रं यथाऽसौ विलयं व्रजेत्

तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः

राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः

तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम्

मया तस्मिन् वनोद्देशे परिघेण निषूदितम्

तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः

निहतं महत्सैन्यं रावणायाचचक्षिरे

तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः

ललामभूतो लङ्कायाः वै विध्वंसितो मया

ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत्

राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः

तमहं बलसम्पन्नं राक्षसं रणकोविदम्

परिघेणातिघोरेण सूदयामि सहानुगम्

तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान्

पदातिबलसम्पन्नान् प्रेषयामास रावणः

परिघेणैव तान् सर्वान्नयामि यमसादनम्

मन्त्रिपुत्रान् हताञ्छ्रुत्वा समरे लघुविक्रमान्

पञ्च सेनाग्रगाञ्छूरान् प्रेषयमास रावणः

तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम्

ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम्

बहुभी राक्षसैः सार्धं प्रेषयामास रावणः

तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम्

चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम्

तमक्षमागतं भग्नं निशम्य दशाननः

तत इन्द्रजितं नाम द्वितीयं रावणः सुतम्

व्यादिदेश सुसङ्क्रुद्धो बलिनं युद्धदुर्मदम्

तच्चाप्यहं बलं सर्वं तं राक्षसपुङ्गवम्

नष्टौजसं रणे कृत्वा परं हर्षमुपागमम्

महतापि महाबाहुः प्रत्ययेन महाबलः

प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः

सोऽविषह्यं हि मां बुद्ध्वा स्वबलं चावमर्दितम्

ब्राह्मेणास्त्रेण तु मां प्राबध्नाच्चातिवेगितः

रज्जुभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः

रावणस्य समीपं गृहीत्वा मामुपानयन्

दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना

पृष्टश्च लङ्कागमनं राक्षसानां तं वधम्

तत्सर्वं मया तत्र सीतार्थमिति जल्पितम्

अस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो

मारुतस्यौरसः पुत्रो वानरो हनुमानहम्

सोऽहं दूत्येन रामस्य त्वत्सकाशमिहागतः

सुग्रीवश्च महातेजाः त्वां कुशलमब्रवीत्

धर्मार्थकामसहितं हितं पथ्यमुवाच

वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे

राघवो रणविक्रान्तो मित्रत्वं समुपागतः

तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता

तत्र साहाय्यमस्माकं कार्यं सर्वात्मना त्वया

मया कथितं तस्मै वालिनश्च वधं प्रति

तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि

वालिना हृतराज्येन सुग्रीवेण महाप्रभुः

चक्रेऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः

तेन वालिनमुत्पाट्य शरेणैकेन संयुगे

वानराणां महाराजः कृतः प्लवता प्रभुः

तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः

क्षिप्रमानीयतां सीता दीयतां राघवाय

यावन्न हरयो वीरा विधमन्ति बलं तव

वानराणां प्रभावो हि केन विदितः पुरा

देवतानां सकाशं ये गच्छन्ति निमन्त्रिताः

इति वानरराजस्त्वामाहेत्यभिहितो मया

मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव

तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा

मत्प्रभावमविज्ञाय रावणेन दुरात्मना

ततो विभीषणो नाम तस्य भ्राता महामतिः

तेन राक्षसराजोऽसौ याचितो मम कारणात्

नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः

राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया

दूतवध्या दृष्टा हि राजशास्त्रेषु राक्षस

दूतेन वेदितव्यं यथार्थं हितवादिना

सुमहत्यपराधेऽपि दूतस्यातुलविक्रम

विरूपकरणं दृष्टं वधोऽस्तीति शास्त्रतः

विभीषणेनैवमुक्तो रावणः सन्दिदेश तान्

राक्षसानेतदेवास्य लाङ्गूलं दह्यतामिति

ततस्तस्य वचः श्रुत्वा पुच्छं समन्ततः

वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः

तदाऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः

बद्धस्य बहुभिः पाशैर्यन्त्रितस्य राक्षसैः

ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम्

अघोषयन् राजमार्गे नगरद्वारमागताः

ततोऽहं सुमहद्रूपं सङ्क्षिप्य पुनरात्मनः

आयसं परिघं गृह्य तानि रक्षांस्यसूदयम्

ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम्

पुच्छेन प्रदीप्तेन तां पुरीं साट्टगोपुराम्

दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः

विनष्टा जानकी व्यक्तं ह्यदग्धः प्रदृश्यते

लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी

दहता मया लङ्कां दग्धा सीता संशयः

रामस्य हि महत् कार्यं मयेदं वितथीकृतम्

इति शोकसमाविष्टश्चिन्तामहमुपागतः

अथाहं वाचमश्रौषं चारणानां शुभाक्षराम्

जानकी दग्धेति विस्मयोदन्तभाषिताम्

ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम्

अदग्द्धा जानकीत्येवं निमित्तैश्चोपलक्षिता

दीप्यमाने तु लाङ्गूले मां दहति पावकः

हृदयं प्रहृष्टं मे वाताः सुरभिगन्धिनः

तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः

ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः

पुनर्दृष्ट्वा वैदेहीं विसृष्टश्च तया पुनः

ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः

प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया

ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम्

पन्थानमहमाक्रम्य भवतो दृष्टवानिह

राघवस्य प्रभावेन भवतां चैव तेजसा

सुग्रीवस्य कार्यार्थं मया सर्वमनुष्टितम्

एतत्सर्वं मया तत्र यथावदुपपादितम्

अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति