Kanda 5 SK-057-Hanuma leaps from Lanka and touches Mount Mainaka

सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम्

तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम्

पुलर्वसुमहामीनं लोहिताङ्गमहाग्रहम्

ऐरावतमहाद्वीपं स्वातीहंसविलोलितम्

वातसङ्घातजातोर्मिचन्द्रांशुशिशिराम्बुमत्

भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम्

हनुमान् मारुतगतिर्महानौरिव सागरम्

अपारमपरिश्रान्तः पुप्लुवे गगनार्णवम्

ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन्

हरन्निव सनक्षत्रं गगनं सार्कमण्डलम्

मारुतस्यात्मजः श्रीमान् कपिर्व्योमचरो महान्

हनुमान् मेघजालानि विकर्षन्निव गच्छति

पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि

हरितारुणवर्णानि महाभ्राणि चकाशिरे

प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः

प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते

विविधाभ्रघनापन्नगोचरो धवलाम्बरः

दृश्यादृश्यतनुर्वीरस्तदा चन्द्रायतेऽम्बरे

तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः

दारयन् मेघवृन्दानि निष्पतंश्च पुनः पुनः

नदन्नादेन महता मेघस्वनमहास्वनः

प्रवरान् राक्षसान् हत्वा नाम विश्राव्य चात्मनः

आकुलां नगरीं कृत्वा व्यथयित्वा रावणम्

अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य

आजगाम महातेजाः पुनर्मध्येन सागरम्

पर्वतेन्द्रं सुनाभं समुपस्पृश्य वीर्यवान्

ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः

किञ्चिदनुसंप्राप्तः समालोक्य महागिरिम्

महेन्द्रमेघसङ्काशं ननाद हरिपुङ्गवः

पूरयामास कपिर्दिशो दश समन्ततः

नदन्नादेन महता मेघस्वनमहास्वनः

तं देशमनुप्राप्तः सुहृद्दर्शनलालसः

ननाद हरिशाद्रूलो लाङ्गूलं चाप्यकम्पयत्

तस्य नानद्यमानस्य सुपर्णचरिते पथि

फलतीवास्य घोषेण गगनं सार्कमण्डलम्

ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः

पूर्वं संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः

महतो वायुनुन्नस्य तोयदस्येव गर्जितम्

शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः

ते दीनमनसः सर्वे शुश्रुवुः काननौकसः

वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम्

निशम्य नदतो नादं वानरास्ते समन्ततः

बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः

जाम्बवान् हरिश्रेष्ठः प्रीतिसंहृष्टमानसः

उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत्

सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः

ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत्

तस्य बाहूरुवेगं निनादं महात्मनः

निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः

ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि

प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः

ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुविष्ठिताः

वासांसीव प्रशाखाश्च समाविध्यन्त वानराः

गिरिगह्वरसंलीनो यथा गर्जति मारुतः

एवं जगर्ज बलवान् हनूमान् मारुतात्मजः

तमभ्रघनसङ्काशमापतन्तं महाकपिम्

दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा

ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः

निपपात महेन्द्रस्य शिखरे पादपाकुले

हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे

छिन्नपक्ष इवाकाशात् पपात धरणीधरः

हनूमन्तं महात्मानं परिवार्योपतस्थिरे

परिवार्य ते सर्वे परां प्रीतिमुपागताः

उपायनानि चादाय मूलानि फलानि

प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम्

हनुमांस्तु गुरून् वृद्धान् जाम्बवत्प्रमुखांस्तदा

कुमारमङ्गदं चैव सोऽवन्दत महाकपिः

ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः

दृष्टा सीतेति विक्रान्तः सङ्क्षेपेण न्यवेदयत्

निषसाद हस्तेन गृहीत्वा वालिनः सुतम्

रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा

हनुमानब्रवीद्धृष्टस्तदा तान् वानरर्षभान्

अशोकवनिकासंस्था दृष्टा सा जनकात्मजा

रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता

एकवेणीधरा बाला रामदर्शनलालसा

उपवासपरिश्रान्ता जटिला मलिना कृशा

ततो दृष्टेति वचनं महार्थममृतोपमम्

निशम्य मारुतेः सर्वे मुदिता वानरा भवन्

क्ष्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः

चक्रुः किलिकिलामन्ये प्रतिगर्जन्ति चापरे

केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः

अञ्चिता यतदीर्घाणि लाङ्गूलानि प्रविव्यधुः

अपरे हनूमन्तं वानरा वारणोपमम्

आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः

उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत्

सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम्

सत्त्वे वीर्ये ते कश्चित् समो वानर विद्यते

यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः

अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः

दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी

दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम्

ततोऽङ्गदं हनूमन्तं जाम्बवन्तं वानराः

परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः

श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः

दर्शनं चापि लङ्कायाः सीताया रावणस्य

तस्थुः प्राञ्जलयः सर्वे हनुमद्वदनोन्मुखाः

तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः

उपास्यमानो विबुधैर्दिवि देवपतिर्यथा

हनूमता कीर्तिमता यशस्विना तथाऽङ्गदेनाङ्गदबद्धबाहुना

मुदा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रियाऽभवत्