Kanda 5 SK-056-Hanuma again visits Ashoka garden and sees Seetha

ततस्तु शिंशुपामूले जानकीं पर्यवस्थिताम्

अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम्

ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः

भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत

काममस्य त्वमेवैकः कार्यस्य परिसाधने

पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः

शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः

मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः

भवत्याहवशूरस्य तथा त्वमुपपादय

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्

निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत्

क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः

यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति

एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः

गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत्

ततः कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः

आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः

तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः

सोत्तरीयमिवाम्भोदैः श्रृङ्गान्तरविलम्बिभिः

बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः

उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः

तोयौघनिस्वनैर्मन्द्रैः प्राधीतमिव पर्वतम्

प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः

देवदारुभिरत्युच्चैरूर्ध्वबाहुमिव स्थितम्

प्रपातजलनिर्घोषैः प्राक्रृष्टमिव सर्वतः

वेपमानमिव श्यामैः कम्पमानैः शरद्घनैः

वेणुभिमारुतोद्धूतैः कूजन्तमिव कीचकैः

निःश्वसन्तमिवामर्षाद्घोरैराशीविषोत्तमैः

नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः

मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः

जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः

कूटैश्च बहुधाकीर्णैः शोभितं बहुकन्दरैः

सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम्

नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम्

बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम्

महर्षियक्षगन्धर्वकिन्नरोरगसेवितम्

लतापादपसङ्घातं सिंहाध्युषितकन्दरम्

व्याघ्रसङ्घसमाकीर्णं स्वादुमूलकफलद्रुमम्

तमारुरोह हनुमान् पर्वतं पवनात्मजः

रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः

तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु

सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः

तमारुह्य शैलेन्द्रं व्यवर्धत व्यवर्धत महाकपिः

दक्षिणादुत्तरं पारं प्रार्थयन् लवणाम्भसः

अधिरूह्य ततो वीरः पर्वतं पवनात्मजः

ददर्श सागरं भीमं मीनोरगनिषेवितम्

मारुत इवाकाशं मारुतस्यात्मसम्भवः

प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम्

ररास सह तैर्भूतैः प्रविशन् वसुधातलम्

कम्पमानैश्च शिखरैः पतद्भिरपि द्रुमैः

तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः

निपेतुर्भूतले रुग्णाः शक्रायुधहता इव

कन्दरान्तरसंस्थानां पीडितानां महौजसाम्

सिंहानां निनदो भीमो नभो भिन्दन् शुश्रुवे

स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः

विद्याधर्यः समुत्पेतुः सहसा धरणीधरात्

अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः

निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः

किन्नरोरगगन्धर्वयक्षविद्याधरास्तदा

पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः

भूमिधरः श्रीमान् बलिना तेन पीडितः

सवृक्षशिखरोदग्रः प्रविवेश रसातलम्

दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः

धरण्यां समतां यातः बभूव धराधरः

लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम्

कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः