Kanda 5 SK-054-Hanuma makes up his mind to set fire the city of Lanka

वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः

वर्धमानसमुत्साहः कार्यशेषमचिन्तयत्

किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम्

यदेषां रक्षसां भूयः सन्तापजननं भवेत्

वनं तावत् प्रमथितं प्रकृष्टा राक्षसा हताः

बलैकदेशः क्षपितः शेषं दुर्गविनाशनम्

दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम्

अल्पयत्नेन कार्येऽस्मिन् मम स्यात् सफलः श्रमः

यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः

अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः

ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः

भवनाग्रेषु लङ्काया विचचार महाकपिः

गृहाद् गृहं राक्षसानामुद्यानानि वानरः

वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्

अग्निं तत्र निक्षिप्य श्वसनेन समो बली

ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्

मुमोच हनुमानग्निं कालानलशिखोपमम्

शुकस्य महातेजाः सारणस्य धीमतः

तथा चेन्द्रजितो वेश्म ददाह हरियूथपः

जम्बुमालेः सुमालेश्च ददाह भवनं ततः

रश्मिमकेतोश्च भवनं सूर्यशत्रोस्तथैव

ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य रक्षसः

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः

विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य

करालस्य पिशाचस्य शोणिताक्षस्य चैव हि

कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि

यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव

नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः

वर्जयित्वा महातेजा विभीषणगृहं प्रति

क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः

तेषु तेषु महार्हेषु भवनेषु महायशाः

गृहेष्वृद्धिमतामृद्धिं ददाह महाकपिः

सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान्

आससादाथ लक्ष्मीवान् रावणस्य निवेशनम्

ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते

मेरुमन्दरसङ्काशे सर्वमङ्गलशोभिते

प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम्

ननाद हनुमान् वीरो युगान्तजलदो यथा

श्वसनेन संयोगादतिवेगो महाबलः

कालाग्निरिव जज्वाल प्रावर्धत हुताशनः

प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत्

अभूच्छ्वसनसंयोगादतिवेगो हुताशनः

तानि काञ्चनजालानि मुक्तामणिमयानि

भवनान्यवशीर्यन्त रत्नवन्ति महान्ति

तानि भग्नविमानानि निपेतुर्वसुधातले

भवनानीव सिद्धानामम्बरात् पुण्यसङ्क्षये

स्वगृहस्य परित्राणे भग्नोत्साहगतश्रियाम्

नूनमेषोऽग्निरायातः कपिरूपेण हा इति

क्रन्दन्त्यः सहसा पेतुः स्तनन्दयधराः स्त्रियः

काश्चिदग्निपरीतेभ्यो हर्म्येभ्यो मुक्तमूर्धजाः

पतन्त्यो रेजिरेऽभ्रेभ्यः सौदामिन्य इवाम्बरात्

वज्रविद्रुमवैदूर्यमुकारजतसंहितान्

विचित्रान् भवनान् धातून् स्यान्दमानान् ददर्श सः

नाग्निस्तृप्यति काष्ठानां तृणानां हरियूथपः

नाग्नेर्नापि विशस्तानां राक्षसानां वसुन्धरा

क्वचित् किंशुकसङ्काशाः क्वचिच्छाल्मलिसन्निभाः

क्वचित् कुङ्कुमसङ्काशाः शिखा वह्नेश्चकाशिरे

हनूमता वेगवता वानरेण महात्मना

लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा

ततस्तु लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः

प्रमार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः

युगान्तकालानलतुल्यवेगः समारुतोऽग्निर्ववृधे दिविस्पृक्

विधूमरश्मिर्भवनेषु सक्तो रक्षश्शरीराज्य समर्पितार्चिः

आदित्यकोटीसदृशः सुतेजा लङ्कां समाप्तां परिवार्य तिष्ठन्

शब्दैरनेकैरशनिप्ररूढैर्भिन्दन्निवाण्डं प्रबभौ महाग्निः

तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः

निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः

वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणोऽनिलो वा

रुद्रोऽग्निरर्को धनदश्च सोमो वानरोऽयं स्वयमेव कालः

किं ब्रह्मणः सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य

इहागतो वाग्रूपधारी रक्षोपसंहारकरः प्रकोपः

किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः

अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया साम्प्रतमागतं वा

इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे

सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य

ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा

सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम्

हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुण्यम्

रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः

हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा

हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का

सम्भ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम्

ददर्श लङ्कां हनुमान् महामनाः स्वयम्भुकोपोपहतामिवावनिम्

भङ्क्त्वा वनं पादपरत्नसङ्कुलं हत्वा तु रक्षांसि महान्ति संयुगे

दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान् पवनात्मजः कपिः

त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः

प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवांशुमाली

रामस्य नाथस्य जगत्त्रयाणां श्रीपादमूलं मनसा जगाम]

ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम्

महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे

भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे

दग्ध्वा लङ्कापुरीं रम्यां रराज महाकपिः

तत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः

दृष्ट्वा प्रदग्धां तां विस्मयं परमं गताः

तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिम्

कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः

देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः

भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम्