Kanda 5 SK-052-Ravana orders Hanuma to be killed

तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः

आज्ञापयद्वधं तस्य रावणः क्रोधमूर्च्छितः

वधे तस्य समाज्ञप्ते रावणेन दुरात्मना

निवेदितवतो दौत्यं नानुमेने विभीषणः

तं रक्षोधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम्

विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः

निश्चितार्थस्ततः साम्नाऽऽपूज्य शत्रुजिदग्रजम्

उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः

क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व

वधं कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः

राजधर्मविरुद्धं लोकवृत्तेश्च गर्हितम्

तव चासदृशं वीर कपेरस्य प्रमापणम्

धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः

परावरज्ञो भूतानां त्वमेव परमार्थवित्

गृह्यन्ते यदि रोषेण त्वादृशोऽपि विपश्चितः

ततः शास्त्रधर्मविपश्चित्त्वं श्रम एव हि केवलम्

तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद

युक्तायुक्तं विनिश्चित्य दूतदण्डे विधीयताम्

विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः

रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत्

पापानां वधे पापं विद्यते शत्रुसूदन

तस्मादेनं वधिष्यामि वानरं पापचारिणम्

अधर्ममूलं बहुरोषयुक्तमनार्यजुष्टं वचनं निशम्य

उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः

प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व

दूता वध्याः समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः

असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम्

दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः

वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्षणसन्निपातः

एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य नः श्रुतोऽपि

कथं धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः

भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः

धर्मवादे लोकवृत्ते शास्त्रबुद्धिग्रहणेषु चापि

विद्येत कश्चित्तव वीरतुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम्

चाप्यस्य कपेर्घाते कञ्चित् पश्याम्यहं गुणम्

तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः

साधुर्वा यदिवाऽसाधुः परैरेष समर्पितः

ब्रुवन् परार्थं परवान् दूतो वधमर्हति

अपि चास्मिन् हते राजन् नान्यं पश्यामि खेचरम्

इह यः पुनरागच्छेत् परं पारं महोदधेः

तस्मान्नास्य वदे यत्नः कार्यः परपुरञ्जय

भवान् सेन्द्रेषु देवेषु यत्नमास्तातुमर्हति

अस्मिन् विनष्टे नहि दूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ

युद्धाय युद्धप्रिय दुर्विनीतावुद्योजयेद्दीर्घपथावरुद्धौ

पराक्रमोत्साहमनस्विनां सुरासुराणामपि दुर्जयेन

त्वया मनोनन्दन नैर्ऋतानां युद्धायतिर्नाशयितुं युक्ता

हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु

मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः

तदेकदेशेन बलस्य तावत् केचित्तवादेशकृतोऽभियान्तु

तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम्

निशाचराणामधिपोऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम्

जग्राह बुद्ध्या सुरलोकशत्रुर्महाबलो राक्षसराजमुख्यः