Kanda 5 SK-049-Hanuma sees well-adorned Ravana

ततः कर्मणा तस्य विस्मितो भीमविक्रमः

हनुमान् रोषताम्राक्षो रक्षोधिपमवैक्षत

भ्राजमानं महार्हेण काञ्चनेन विराजता

मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम्

वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः

हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः

महार्हक्षौमसंवीतं रक्तचन्दनरूषितम्

स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः

विवृतैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः

दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः

शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसम्

नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम्

नीलाञ्जनचयप्रख्यं हारेणोरसि राजता

पूर्णचन्द्राभवक्रेण सबलाकमिवाम्बुदम्

बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः

भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षौरिवोरगैः

महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते

उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने

अलङ्कृताभिरत्यर्थं प्रमदाभिः समन्ततः

वालव्यजनहस्ताभिरारात् समुपसेवितम्

दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा

मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन मन्त्रिणा

सुखोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः

कृत्स्न परिवृतं लोकं चतुर्भिरिव सागरैः

सचिवैर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः

अन्वास्यमानं रक्षोभिः सुरैरिव सुरेश्वरम्

अपश्यद्राक्षसपतिं हनुमानतितेजसम्

विष्ठितं मेरुशिखरे सतोयमिव तोयदम्

तैः संपीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः

विस्मयं परमं गत्वा रक्षोधिपमवैक्षत

भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम्

मनसा चिन्तयामास तेजसा तस्य मोहितः

अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः

अहो राक्षसराजस्य सर्वलक्षणयुक्तता

यद्यधर्मो बलवान् स्यादयं राक्षसेश्वरः

स्यादय सुरलोकस्य सशक्रस्यापि रक्षिता

अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः

तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः

इति चिन्तां बहुविधामकरोन्मतिमान् हरिः

दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः