Kanda 5 SK-046-Ravana sends five army-generals

हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना

रावणः संवृताकारश्चकार मतिमुत्तमाम्

विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम्

प्रघसं भारकर्णं पञ्च सेनाग्रनायकान्

सन्दिदेश दशग्रीवो वीरान्नयविशारदान्

हनुमद्ग्रहणव्यग्रान् वायुवेगसमान् युधि

यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः

सवाजिरथमातङ्गाः कपिः शास्यतामिति

यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम्

कर्म चापि समाधेयं देशकालविरोधिनम्

सर्वथा तन्महद्भूतं महाबलपरिग्रहम्

भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात्

सनागयक्षगन्धर्वा देवासुरमहर्षयः

युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः

तैरवश्यं विधातव्यं व्यलीकं किञ्चिदेव नः

तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम्

नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः

दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः

वाली सहसुग्रीवो जाम्बवांश्च महाबलः

नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः

नैवं तेषां गतिर्भीमा तेजो पराक्रमः

मतिर्न बलोत्साहौ रूपपरिकल्पनम्

महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम्

प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः

कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः

भवतामग्रतः स्थातुं पर्याप्ता रणाजिरे

तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे

आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला

ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः

समुत्पेतुर्महावेगा हुताशसमतेजसः

रथैर्मत्तैश्च मातङ्गैर्वाजिभिश्च महाजवैः

श्स्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः

ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम्

रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम्

तोरणस्थं महोत्साहं महासत्त्वं महाबलम्

महामतिं महावेगं महाकायं महाबलम्

तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः

तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः

तस्य पञ्चायसास्तीक्ष्णाः शिताः पीतमुखाः शराः

शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः

तैः पञ्चभिराविद्धः शरैः शिरसि वानरः

उत्पपात नदन् व्योम्नि दिशो दश विनादयन्

ततस्तु दुर्धरो वीरः सरथः सज्यकार्मुकः

किरन् शरशतैस्तीक्ष्णैरभिपेदे महाबलः

कपिर्वारयामास तं व्योम्नि शरवर्षिणम्

वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः

अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः

चकार कदनं भूयो व्यवर्धत वेगवान्

दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः

निपपात महवेगो विद्युद्राशिर्गिराविव

ततः मथिताष्टाश्वं रथं भग्नाक्षकूबरम्

विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः

तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि

सञ्जातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ

ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे

मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः

तयोर्वेगवतोर्वेगं विनिहत्य महाबलः

निपपात पुनर्भूमौ सुपर्णसमविक्रमः

सालवृक्षमासाद्य तमुत्पाट्य वानरः

तावुभौ राक्षसौ वीरौ जघान पवनात्मजः

ततस्तांस्त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना

अभिपेदे महावेगः प्रसह्य प्रघसो हरिम्

भासकर्णश्च सङ्क्रुद्धः शूलमादाय वीर्यवान्

एकतः कपिशार्दूलं यशस्विनमवस्थितम्

पट्टिशेन शिताग्रेण प्रघसः प्रत्ययोधयत्

भासकर्णश्च शूलेन राक्षसः कपिसत्तमम्

ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः

अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः

समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम्

जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः

ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु

बलं तदवशेषं नाशयास वानरः

अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान्

कपिर्नाशयामास सहस्राक्ष इवासुरान्

हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः

हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः

ततः कपिस्तान् ध्वजिनीपतीन् रणे निहत्य वीरान् सबलान् सवाहनान्

समीक्ष्य वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये