Kanda 5 SK-044-Ravana sends Jambumali

सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली

जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः

रक्तमाल्याम्बरधरः स्रग्वी रुचिरगुण्डलः

महान् विवृत्तनयनश्चण्डः समरदुर्जयः

धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम्

विस्फारयानो वेगेन वज्राशनिसमस्वनम्

तस्य विस्फारघोषेण धनुषो महता दिशः

प्रदिशश्च नभश्चैव सहसा समपूर्यत

रथेन खरयुक्तेन तमागतमुदीक्ष्य सः

हनुमान् वेगसम्पन्नौ जहर्ष ननाद

तं तोरणविटङ्कस्थं हनुमन्तं महाकिपम्

जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः

अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना

बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम्

तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम्

शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना

तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम्

यथाऽऽकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः

चुकोप बाणाभिहतो राक्षसस्य महाकपिः

तरसा तां समुत्पाट्य चिक्षेप बलवद्बली

तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः

विपन्नं कर्म तद् दृष्ट्वा हनुमांश्चण्डविक्रमः

सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान्

भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम्

चिक्षेप सुबहून् बाणान् जम्बुमाली महाबलः

सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे

उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे

शरैः पूरिततनुः क्रोधेन महता वृतः

तमेव परिघं गृह्य भ्रामयामास वेगतः

अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः

परिघं पातयामास जम्बुमालेर्महोरसि

तस्य चैव शिरो नास्ति बाहू जानुनी

धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः

हतस्तरसा तेन जम्बुमाली महाबलः

पपात निहतो भूमौ चूर्णिताङ्गविभूषणः

जम्बुमालिं निहतं किङ्करांश्च महाबलान्

चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः

रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले

अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः