ततः स किङ्करान् हत्वा हनुमान् स्थानमास्थितः
तस्मात् प्रासादमप्येव भीमं विध्वंसयाम्यहम्
इति स़ञ्चिन्त्य मनसा हनुमान् दर्शयन् बलम्
चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम्
आरुरोह हरिश्रेष्ठो हनुमान् मारुतात्मजः
आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः
बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः
संप्रधृष्य च दुर्धर्षं चैत्यप्रासादमुत्तमम्
हनुमान् प्रज्वलन् लक्ष्म्या पारियात्रोपमोऽभवत्
स भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः
धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्
तस्यास्फोटितशब्देन महता श्रोत्रघातिना
पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः
अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः
राजा जयति सुग्रीवो राघवेणाभिपालितः
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः
हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्
एमुक्त्वा विमानस्थश्चैत्यस्थान् हरियूथपः
ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम्
गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान्
विसृजन्तो महाकाया मारुतिं प्रर्यवारयन्
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः
आजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः
आवर्त इव गङ्गायास्तोयस्य विपुलो महान्
परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः
ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः
उत्पाटयित्वा वेगेन हनुमान् पवनात्मजः
ततस्तं भ्रामयामास शताधारं महाबलः
तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत
स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान्
अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत्
मादृशानां सहस्राणि विसृष्टानि महात्मनाम्
बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम्
अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः
दशनागबलाः केचित् केचिद्दशगुणोत्तराः
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः
सन्ति चौघबलाः केचित् केचिद्वायुबलोपमाः
अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः
शतैः शतसहस्रैश्च कोटीभिरयुतैरपि
आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः
नेयमस्ति पुरी लङ्का न यूयं न च रावणः
यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना