Kanda 5 SK-038-Hanuma asks Seetha to give him a token of remembrance

ततः सकपिशार्दूलस्तेन वाक्येन हर्षितः

सीतामुवाच तच्छ्रुत्वा वाक्यं वक्यविशारदः

युक्तरूपं त्वया देवि भाषितं शुभदर्शने

सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य

स्त्रीत्वं तु समर्थं हि सागरं व्यतिवर्तितुम्

मामधिष्ठाय विस्तीर्णं शतयोजनमायतम्

द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते

रामादन्यस्य नार्हामि संस्पर्शमिति जानकि

एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः

का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम्

श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः

चोष्टितं यत्त्वया देवि भाषितं मम चाग्रतः

कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया

स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम्

लङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान्महोदधेः

सामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम्

इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना

गुरुस्नेहेन भक्त्या नान्यथैतदुदाहृतम्

यदि नोत्सहसे यातुं मया सार्धमनिन्दिते

अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि तत्

एवमुक्ता हनुमता सीता सुरसुतोपमा

उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम्

इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्

शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा

तापसाश्रमवासिन्याः प्राज्यमूलफलोदके

तस्मिन् सिद्धाश्रमे देशे मन्दाकिन्या ह्यदूरतः

तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु

विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम्

ततो मांससमायुक्तो वायसः पर्यतुण्डयत्

तमहं लोष्टमुद्यम्य वारयामि स्म वायसम्

दारयन् मां काकस्तत्रैव परिलीयते

चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः

उत्कर्षन्त्यां रशनां क्रुद्धायां मयि पक्षिणि

स्रस्यमाने वसने ततो दृष्टा त्वया ह्यहम्

त्वयाऽपहसिता चाहं क्रुद्धा संलज्जिता तदा

भक्षगृध्रेन काकेन दारिता त्वामुपागता

आसीनस्य ते श्रान्ता पुनरुत्सङ्गमाविशम्

क्रुद्ध्यन्ती प्रहृष्टेन त्वयाऽहं परिसान्त्विता

बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती

लक्षिताऽहं त्वया नाथ वायसेन प्रकोपिता

पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः

तत्र पुनरेवाथ वायसः समुपागमत्

ततः सुप्तप्रबुद्धां मां रामस्याङ्कात् समुत्थिताम्

वायसः सहसाऽऽगम्य विददार स्तनान्तरे

पुनः पुनरथोत्पत्य विददार मां भृशम्

ततः समुक्षितो रामो मुक्तैः शोणितबिन्दुभिः

वायसेन ततस्तेन बलवत्क्लिश्यमानया

मया बोधितः श्रीमान् सुखसुप्तः परन्तपः

मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा

आशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत

केन ते नागनासोरु विक्षतं वै स्तनान्तरम्

कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना

वीक्षमाणस्ततस्तं वै वायसं समुदैक्षत

नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम्

पुत्रः किल शक्रस्य वायसः पततां वरः

धरान्तरगतः शीघ्रं पवनस्य गतौ समः

ततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः

वायसे कृतवान् क्रूरां मतिं मतिमतां वरः

दर्भं संस्तराद् गृह्य ब्राह्मेमास्त्रेण योजयत्

दीप्त इव कालाग्रिर्जज्वलाभिमुखो द्विजम्

तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति

ततस्तं वायसं दर्भः सोऽम्बरेऽनुजगाम

अनुसृप्तस्तदा काको जगाम विविधां गतिम्

लोककाम इमं लोकं सर्वं वै विचचार

पित्रा परित्यक्तः सुरैश्च समहर्षिभिः

त्रील्लोकान् संपरिक्रम्य तमेव शरणं गतः

तं निपतितं भूमौ शरण्यः शरणागतम्

वधार्हमपि काकुत्स्थः कृपया पर्यपालयत्

शर्म लब्ध्वा तमेव शरणं गतः

परिद्यूनं विषण्णं तमायान्तमब्रवीत्

मोघं कर्तुं शक्यं तु ब्राह्ममस्त्रं तदुच्यताम्

ततस्तस्याक्षि काकस्य हिनस्ति स्म दक्षिणम्

दत्त्वा दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः

रामाय नमस्कृत्वा राज्ञे दशरथाय

विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम्

मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम्

कर्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते

कुरुष्व महोत्साहः कृपां मयि नरर्षभ

त्वया नाथवती नाथ ह्यनाथा इव दृश्यते

आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः

अपारपारमक्षोभ्यं गाम्भीर्यात् सागरोपमम्

भर्तारं ससमुद्रायाधरण्या वासवोपमम्

एवमस्त्रविदां श्रेष्ठः सत्यवान् बलवानपि

किमर्थमस्त्रं रक्षस्सु योजयति राघवः

नागा नापि गन्धर्वा नासुरा मरुद्गणाः

रामस्य समरे वेगं शक्ताः प्रतिसमाधितुम्

तस्य वीर्यवतः कश्चिद् यद्यस्ति मयि संभ्रमः

किमर्थं शरैस्तीक्ष्णैः क्षयं नयति राक्षसान्

भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः

कस्य हेतोर्न मां वीरः परित्राति महाबलः

यदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ

सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः

ममैव दुष्कृतं किञ्चिन्महदस्ति संशयः

समर्थावपि तौ यन्मां नावेक्षते परन्तपौ

वैदह्या वचनं श्रत्वा करुणं साश्रुभाषितम्

अथाब्रवीन्महातेजा हनूमान् मारुतात्मजः

त्वच्छोकविमुखो रामो देवि सत्येन मे शपे

रामे दुःखाभिपन्ने लक्ष्मणः परितप्यते

कथञ्चिद्भवती दृष्टा कालः परिशोचितुम्

इमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते

तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ

त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः

राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति

ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः

इत्युक्तवति तस्मिंश्च सीता सुरसुतोपमा

उवाच सोकसन्तप्ता हनुमन्तं प्लवङ्गमम्

कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी

तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय

स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः

ऐश्वर्यं विशालायां पृथिव्यामपि दुर्लभम्

पितरं मातरं चैव संमान्याभिप्रसाद्य

अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः

आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम्

अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने

संहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः

पितृवद्वर्तते रामे मातृवन्मां समाचरन्

ह्रियमाणां तदा वीरो तु मां वेद लक्ष्मणः

वृद्दोपसेवी लक्ष्मीवान् शक्तो बहु भाषिता

राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे

मम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः

नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान्

ममार्थाय कुशलं वक्तव्यो वचनान्मम

मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः

यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत्

त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम

राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत्

इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः

जीवितं धारयिष्यामि मासं दशरथात्मज

ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते

रावणेनोपरुद्धां मां निकृत्या पापकर्मणा

ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम्

प्रदेयो राघवायेति सीता हनुमते ददौ

प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम्

अङ्गुल्या योजयामास ह्यस्य प्राभवद्भुजः

मणिरत्नं कपिवरः प्रतिगृह्याभिवद्य

सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः

हर्षेण महता युक्तः सीतादर्शनजेन सः

हृदयेन गतो रामं शरीरेण तु विष्ठितः

मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात्

गिरिरिव पवनावधूत्मुक्तः सुखितमनाः प्रतिसङ्क्रमं प्रपेदे