Kanda 5 SK-034-Hanuma reveals himself to be a messenger of

तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः

दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत्

अहं रामस्य सन्देशाद्देवि दूतस्तवागतः

वैदेहि कुशली रामस्त्वां कौशलमब्रवीत्

यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः

त्वां दाशरथी रामो देवि कौशलमब्रवीत्

लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः

कृतवाञ्छोकसन्तप्तः शिरसा तेऽभिवादनम्

सा तयोः कुशलं देवी निशम्य नरसिंहयोः

प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत्

कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा

एति जीवन्तमानन्दो नरं वर्षशतादपि

तया समागते तस्मिन् प्रीतिरुत्पादिताऽद्भुता

परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः

तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः

सीतायाः शोकदीनायाः समीपमुपचक्रमे

यथा यथा समीपं हनुमानुपसर्पति

तथा तथा रावणं सा तं सीता परिशङ्कते

अहो धिग् दुष्कृतमिदं कथितं हि यदस्य मे

रूपान्तरमुपागम्य एवायं हि रावणः

तामशोकस्य शाखां सा विमुक्ता शोककर्शिता

तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत्

अवन्दत महाबाहुस्ततस्तां जनकात्मजाम्

सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत

तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना

अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा

मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम्

उत्पादयसि मे भूयः सन्तापं तन्न शोभनम्

स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत्

जनस्थाने मया दृष्टस्त्वं एवासि रावणः

उपवासकृशां दीनां कामरूप निशाचर

सन्तापयसि मां भूयः सन्तप्तां तन्न शोभनम्

अथवा नैतदेवं हि यन्मया परिशङ्कितम्

मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात्

पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे

गुणान् रामस्य कथय प्रियस्य मम वानर

चित्तं हरसि मे सौम्य नदीकूलं यथा रयः

अहो स्वप्नस्य सुखता याऽहमेंव चिराहृता

प्रेषितं नाम पश्यामि राघवेण वनौकसम्

स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम्

पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी

नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम्

शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम

किन्नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम्

उन्मादजो विकारो वा स्यादियं मृगतृष्णिका

अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः

संबुद्ध्ये चाहमात्मानमिमं चापि वनौकसम्

इत्येवं बहुधा सीता संप्रधार्य बलाबलम्

रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम्

एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा

प्रतिव्याजहाराथ वानरं जनकात्मजा

सीतायाश्चिन्तितं बुद्ध्वा हनुमान् मारुतात्मजः

श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयत्

राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा

विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः

सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा

रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान्

स्थानक्रोधः प्रहर्ता श्रेष्ठो लोके महारथः

बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः

अपकृष्याश्रमपदान्मृगरूपेण राघवम्

शून्ये येनापनीताऽसि तस्य द्क्ष्यसि यत्फलम्

नचिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान्

रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः

तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः

त्वद्वियोगेन दुःखार्तः त्वां कौशलमब्रवीत्

लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः

अभिवाद्य महाबाहुः त्वां कौशलमब्रवीत्

रामस्य सखा देवि सुग्रीवो नाम वानरः

राजा वानरमुख्यानां त्वां कौशलमब्रवीत्

नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः

दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता

नचिराद्द्रक्ष्यसे रामं लक्ष्मणं महाबलम्

मध्ये वानरकोटीनां सुग्रीवं चामितौजसम्

अहं सुग्रीवसचिवो हनुमान्नाम वानरः

प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम्

कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः

त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम्

नाहमस्मि तथा देवि यथा मामवगच्छसि

विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम