Kanda 5 SK-033-Seetha antecedents to Hanuma

सोऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः

विनीतवेषः कृपणः प्रणिपत्योपसृत्य

तामब्रवीन्महातेजा हनूमान् मारुतात्मजः

शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा

कानु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि

द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते

किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम्

पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम्

सुराणामसुराणां वा नागगन्धर्वरक्षसाम्

यक्षाणां किन्नराणां वा का त्वं भवसि शोभने

का त्वं भवसि रुद्राणां मरुतां वा वरानने

वसूनां वा वरारोहे देवता प्रतिभासे मे

किन्नु चन्द्रमसा हीना पतिता विबुधालयात्

रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता

का त्वं भवसि कल्याणि कत्वमनिन्दितलोचने

कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे

वसिष्ठं कोपयित्वा त्वं नासिकल्याण्यरुन्धती

को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे

अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि

रोदनादतिनिःश्वासाद्भूतमिसंस्पर्शनादपि

त्वां देवीमहं मन्ये राज्ञः सञ्ज्ञावधारणात्

व्यञ्जनानि ते यानि लक्षणामनि लक्षये

महिषी भूमिपालस्य राजकन्याऽसि मे मता

रावणेन जनस्थानाद् बलादपहृता यदि

सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः

यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम्

तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम्

सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता

उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम्

पृथिव्यां राजसिहानां मुख्यस्य विदितात्मनः

स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः

दुहिता जनकस्याहं वैदेहस्य महात्मनः

सीता नाम नाम्नाऽहं भार्या रामस्य धीमतः

समा द्वादश तत्राहं राघवस्य निवेशने

भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी

तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम्

अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे

तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने

कैकेयी नाम भर्तारं देवी वचनमब्रवीत्

पिबेयं खादेयं प्रत्यहं मम भोजनम्

एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते

यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम

तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः

राजा सत्यवाग् देव्या वरदानमनुस्मरन्

मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम्

ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः

ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत

पितुर्वचनं श्रीमानभिषेकात् परं प्रियम्

मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान्

दद्यान्न प्रतिगृह्णीयान्न ब्रूयात् किञ्चिदप्रियम्

अपि जीवितहेतोर्वा रामः सत्यपराक्रमः

विहायोत्तरीयाणि महार्हाणि महायशाः

विसृज्य मनसा राज्यं जनन्यै मां समादिशत्

साऽहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी

हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते

प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः

पूर्वजस्यानुयात्रार्थे द्रुमचीररैलङ्कृतः

वयं भर्तुरादेशं बहुमान्य दृढव्रताः

प्रविष्टाः स्म पुराऽदृष्टं वन गम्भीरदर्शनम्

वसतो दण़्डकारण्ये तस्याहममितौजसः

रक्षसाऽपहृता भार्या रावणेन दुरात्मना

द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः

ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम्