Kanda 5 SK-032-Seetha is shocked to see Hanuma

ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा

वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम्

सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्

फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम्

अहो भीममिदं रूपं वानरस्य दुरासदम्

दुर्निरीक्ष्यमिति ज्ञात्वा पुनरेव मुमोह सा

विललाप भृशं सीता करुणं भयमोहिता

रामरामेति दुःखार्ता लक्ष्मणेति भामिनी

रुरोद बहुधा सीता मन्दं मन्दस्वरा सती

सा तं दृष्ट्वा हरिश्रेष्ठं विनीतबदुपस्थितम्

मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी

सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम्

ददर्श पिङ्गधिपतेरमात्यं वातात्मजं बुद्धिमतां वरिष्ठम्

सा तं समीक्ष्यैव भृशं विसञ्ज्ञा गतासुकल्पेव बभूव सीता

चिरेण सञ्ज्ञा प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा

स्वप्ने मयाऽयं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः

स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः

स्वप्नोऽपि नायं नहि मेऽस्ति निद्रा शोकेन दुःखेन पीडितायाः

सुखं हि मे नास्ति यतोऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन

रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव

तस्यानुरूपां कथां तमर्तमेव प्रपश्यामि तथा श्रृणोमि

अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा

विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि

मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्या वितर्कयामि

किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम्

नमोऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय

अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथाऽस्तु नान्यथा