Kanda 5 SK-028-Seetha recollects the time limit

सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता

सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या

सा राक्षसीमध्यगता भीरुर्वाग्भिर्भृशं रावणतर्जिता

कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता

सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः

यत्राहमेवं परिभर्त्स्यमाना जीवामि किञ्चित्क्षणमप्यपुण्या

सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे

विशीर्यते यन्न सहस्रधाऽद्य वज्राहतं शृङ्गमिवाचलस्य

नैवास्ति दोषं मम नूनमत्र वध्याऽहमस्याप्रियदर्शनस्य

भावं चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवाद्विजाय

नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः

तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः

दुःखं बतेदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ

बद्धस्य वध्यस्य तथा निशान्ते राजापराधादिव तस्करस्य

हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्या

एषा विपद्याम्यहमल्पभाग्या माहार्णवे नौरिव मूढवाता

तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ

नूनं विशस्तौ मम कारणात् तौ सिंहर्षभौ द्वाविव वैद्यतेन

नूनं कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम्

यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं

हा राम सत्यव्रत दीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्र

रा जीवलोकस्य हितः प्रियश्च वध्यां मां वेत्सि हि राक्षसानाम्

अनन्यदेवत्वमियं क्षमा भूमौ शय्या नियमश्च धर्मे

पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम्

मोघो हि धर्मश्चरितो मयाऽयं तथैकपत्नीत्वमिदं निरर्थम्

या त्वां पश्यामि कृशा विवर्णा हीना त्वया सङ्गमने निराशा

पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च

स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थः

अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा

मोघं चरित्वाऽथ तपोव्रतं त्यक्ष्यामि धिग् जीवितमल्पभाग्या

सा जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि

विषस्य दाता नहि मेऽस्ति कश्चिच्छस्त्रस्य वा वेश्मनि राक्षसस्य

इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरन्ती

प्रवेपमाना परिशुष्कवक्त्रा नगोत्तमं पुष्पितमाससाद

शोकाभितप्ता बहुधा विचिन्त्य सीताऽथ वेण्युद्ग्रथनं गृहीत्वा

उद्बध्य वेण्युद्ग्रथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम्

उपस्थिता सा मृदुसर्वगात्रा शाखां गृहीत्वाऽथ नगस्य तस्य

शोकानिमित्तानि तथा बहूनि धैर्यार्जितानि प्रवराणि लोके

प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि