Kanda 5 SK-012-Hanuma s depression

तस्य मध्ये भवनस्य मारुतिर्लतागृहांश्चित्रगृहान्निशागृहान्

जगाम सीतां प्रति दर्शनोत्सुको चैव तां पश्यति चारुदर्शनाम्

चिन्तयामास ततो महाकपिः प्रियामपश्यन् रघुनन्दनस्य ताम्

ध्रुवं हि सीता म्रियते यथा मे विचिन्वतो दर्शनमेति मैथिला

सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षणतत्परा सती

अनेन नूनं प्रतिदुष्टकर्मणा हता भवेदार्यपथे परे स्थिता

विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः

समीक्ष्य सा राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा

सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम्

मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः

दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः

सीता दृश्यते साध्वी वृथा जातो मम श्रमः

गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः

अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम्

ध्रुवं प्रायमुपैष्यन्ति कालस्य व्यतिवर्तने

किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः

गतं पारं समुद्रस्य वानराश्च समागताः

अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम्

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः

करोति सफलं जन्तोः कर्म यत्तत्करोति सः

तस्मादनिर्वेदकृतं यत्नं चेष्टेऽहमुत्तमम्

भूयस्तावद्विचेष्यामि देशान् रावणपालितान्

आपानशाला विचितास्तथा पुष्पगृहाणि

चित्रशालाश्च विचिता भूयः क्रीडागृहाणि

निष्कुटान्तररथ्याश्च विमानानि सर्वशः

इति सञ्चिन्त्य भुयोऽपि विचेतुमुपचक्रमे

भूमीगूहांश्चैत्यगृहान् गृहातिगृहकानपि

उत्पतन्निपतंश्चापि तिष्ठन् गच्छन् पुनः पुनः

अपावृण्वंश्च द्वाराणि कपाटान्यवघाटयन्

प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि

सर्वमप्यवकासं विचचार महाकपिः

चतुरङ्गुलमात्रोऽपि नावकाशः विद्यते

रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः

प्राकारान्तररथ्याश्च वेदिकाश्चैत्यसंश्रयाः

दीर्घिकाः पुष्करिण्यश्च सर्वं तेनावलोकितम्

राक्षस्यो विविधाकारा विरूपा विकृतास्तथा

दृष्टा हनुमता तत्र तु सा जनकात्मजा

रूपेणाप्रतिमा लोके वरा विद्याधरस्त्रियः

दृष्टा हनुमता तत्र तु राघवनन्दिनी

नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः

दृष्टा हनुमता तत्र तु सीता सुमध्यमा

प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः

दृष्टा हनुमता तत्र सा जनकनन्दिनी

सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः

विषसाद मुहुर्धीमान् हनुमान् मारुतात्मजः

उद्योगं वानरेन्द्राणां प्लवनं सागरस्य

व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत्

अवतीर्य विमानाच्च हनुमान् मारुतात्मजः

चिन्तामुपजगामाथ शोकोपहतचेतनः