Kanda 5 SK-008-Description of the Pushpaka

तस्य मध्ये भवनस्य संस्थितं महद्विमानं मणिवज्रचित्रितम्

प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श वीरः पवनात्मजः कपिः

तदप्रमेयाऽप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा

दिवं गतं वायुपथप्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत्

तत्र किञ्चिन्नकृतं प्रयत्नतो तत्र किञ्चिन्नमहार्हरत्नवत्

ते विशेषा नियताः सुरेष्वपि तत्र किञ्चिन्न महाविशेषवत्

तपः समाधानपराक्रमार्जितं मनःसमाधानविचारचारिणम्

अनेकसंश्तानाविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम्

मनस्समाधाय तु शीघ्रगामिनं दुरावरं मारुततुल्यगामिनम्

महात्मनां पुण्यकृतां महर्द्धिनां यशस्विनामग्र्य मुदामिवालयम्

विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम्

मनोभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा

वहन्ति यं कुण्डलशोभितानना महाशना व्योमचरा निशाचराः

विवृत्तविध्वस्तविशाललोचना महाजवा भूतगणाः सहस्रशः

वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि कान्तदर्शनम्

पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः