Kanda 5 SK-006-Inside the palace

निकामं विमानेषु विषण्णः कामरूपधृक्

विचचार पुनर्लङ्कां लाघवेन समन्वितः

आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्

प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम्

रक्षितं राक्षसैर्घोरैः सिंहैरिव महद्वनम्

समीक्षमाणो भवनं चकाशे कपिकुञ्जरः

रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः

विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम्

गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः

उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः

सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः

घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः

बहुरत्नसमाकीर्णं परार्घ्यासनभाजनम्

महारथसमावासं महारथमहास्वनम्

दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः

विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः

विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम्

मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः

मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम्

वराभरणसंह्रादैः समुद्रस्वननिस्वनम्

तद्राजगुणसंपन्नं मुख्यैश्चागुरुचन्दनैः

महाजनैः समाकीर्णं सिंहैरिव महद्वनम्

भेरीमृदङ्गाभिरुतं शङ्खघोषनिनादितम्

नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा

महात्मनो महद्वेश्म महारत्नपरिच्छदम्

महारत्नसमाकीर्णं ददर्श महाकपिः

विराजमानं वपुषा गजाश्वरथसङ्कुलम्

लङ्काभरणमित्येव सोऽमन्यत महाकपिः

चचार हनुमांस्तत्र रावणस्य समीपतः

गृहाद् गृहं राक्षसानामुद्यानानि वानरः

वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्

ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्

अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम्

विभीषणस्य तदा पुप्लुवे महाकपिः

शुकस्य महातेषाः सारणस्य धीमतः

तथा चेन्द्रजितो वेश्म जगाम हरियूथपः

जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः

रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव

वज्रकायस्य तथा पुप्लुवे महाकपिः

धूम्राक्षस्य संपातेर्भवनं मारुतात्मजः

विद्युद्रूपस्य भीमस्य घनस्य विघनस्य

शुकनासस्य वक्रस्य शठस्य विकटस्य

ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य रक्षसः

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः

विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य

करालस्य पिशाचस्य शोणिताक्षस्य चैव हि

क्रममाणः क्रमेणैव हनुमान् मारुतात्मजः

तेषु तेषु महार्हेषु भवनेषु महायशाः

तेषामृद्धिमतामृद्धिं ददर्श महाकपिः

सर्वेषां समतिक्रम्य भवनानि समन्ततः

आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्

विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणाः

शूलमुद्गरहस्ताश्च शक्तितोमरधारिणीः

ददर्श विविधान् गुल्मांस्तस्य रक्षःपतेर्गृहे

राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान्

रक्तान् श्वेतान् सितांश्चैव हरींश्चापि महाजवान्

कुलीनान् रूपसम्पन्नान् गजान् परगजारुजान्

निष्ठितान् गजशिक्षायामैरावतसमान् युधि

निहन्तॄन् परसैन्यानां गहे तस्मिन् ददर्श सः

क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन्

मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः

सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः

हेमजालपरिच्छन्नास्तरुणादित्यसन्निभाः

ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने

शिबिका विविधाकाराः कपिर्मारुतात्मजः

लतागृहाणि चित्राणि चित्रशाला गृहाणि

कामस्य गृहकं रम्यं दिवागृहकमेव

ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने

मन्दरगिरिप्रख्यं मयूरस्थानसङ्कुलम्

ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम्

अनेकरत्नसङ्कीर्णं निधिजालं समन्तत

धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव

अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य

विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः

जाम्बूनदमयान्येव शयनान्यासनानि

भाजनानि मुख्यानि ददर्श हरियूथपः

मनोरममसम्बाधं कुबेरभवनं यथा

नूपुराणां घोषेण काञ्चीनां निनदेन

मृदङ्गतलघोषैश्छ घोषवद्भिर्विनादितम्

प्रासादसङ्घातयुतं स्त्रीरत्नशतसङ्कुलम्

सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहम्