Kanda 5 SK-005-Ravana s palace

ततः मध्यं गतमंशुमन्तं ज्योत्स्नावितानं महदुद्वमन्तम्

ददर्श धीमान् दिवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम्

लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम्

भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथाभियान्तम्

या भाति लक्ष्मीर्भुवि मन्दरस्था तथा प्रदोषेषु सागरस्था

तथैव तोयेषु पुष्करस्था रराज सा चारुनिशाकरस्था

हंसो यता राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः

वीरो यथा गर्वितकृञ्जरस्थश्चन्द्रो विबभ्राज तथाऽम्बरस्थः

स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाचलः श्वेत इवोच्चशृङ्गः

हस्तीव जाम्बूनदबद्धशृङ्गो रराज चन्द्रः परिपूर्णशृङ्गः

विनष्टशीताम्बुतुषारपङ्को महाग्रहग्राहविनष्टपङ्कः

प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को रराज चन्द्रो भगवान् शशाङ्कः

शिलातलं प्राप्य यता मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः

राज्य समासाद्य यथा नरेन्द्रस्तथा प्रकाशो विरराज चन्द्रः

प्रकाशचन्द्रोदयनष्टदोषः प्रवृद्धरक्षः पिशिताशदोषः

रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः

तन्त्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिस्सुवृत्ताः

नक्तञ्चराश्चापि तथा प्रवृत्ता विहर्तुमत्यद्भुतरौद्रवृत्ताः

मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसङ्कुलानि

वीरश्रिया चापि समाकुलानि ददर्श धीमान् कपिः कुलानि

परस्परं चाधिकमाक्षिपन्ति भुजांश्च पीनानधिनिक्षिपन्ति

मत्तप्रलापानधिकं त्रिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति

रक्षंसि वक्षांसि विक्षिपन्ति गात्राणि कान्तासु विक्षपन्ति

रूपाणि चित्राणि विक्षिपन्ति दृढानि चापानि विक्षिपन्ति

ददर्श कान्ताश्च समालभन्त्यस्तथाऽपरास्तत्र पुनः स्वपन्त्यः

सुरूपवक्त्राश्च तता हसन्त्यः क्रुद्धाः पराश्चापि विनिःश्वसन्त्यः

महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा सुसद्भिः

रराज वीरैश्च विनःश्वसद्भिर्ह्रदो भुजङ्गैरिव निःश्वसद्भिः

बुद्धिप्रधानान् रुचिराभिधानान् संश्रद्धधानान् जगतः प्रधानान्

नानाविधानान् रुचिराभिधानन् ददर्श तस्यां पुरि यातुधानान्

ननन्द दृष्ट्वा तान् सुरूपान्नानागुणानात्मगुणानुरूपान्

विद्योतमानान् तदाऽनुरूपान् ददर्श कांश्चिच्च पुनर्विरूपान्

ततो वरार्हाः सुविशुद्धभावास्तेषां स्त्रियस्तत्र महानुभावाः

प्रियेषु पानेषु सक्तभावा ददर्श तारा इव सुप्रभावाः

श्रिया ज्वलन्तीस्त्रयोपगूढा निशीथकाले रमणोपगूढाः

ददर्शकाश्चित्प्रमदोपकूढा यथा विहङ्गाः कुसुमोपगूढाः

अन्याः पुनर्हर्म्यतलोपविष्टास्तत्र प्रियाङ्केषु सुखोपविष्टाः

भर्तुः प्रिया धर्मपरा निविष्टा ददर्श धीमान् मदनाभिविष्टाः

अप्रावृत्ताः काञ्चनराजिवर्णाः काश्चित्परार्घ्यास्तपनीयवर्णाः

पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः

ततः प्रियान् प्राप्य मनोभिरामान् सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः

गृहेषु हृष्टाः परमाभिरामा हरिप्रवीरः ददर्श रामाः

चन्द्रप्रकाशाश्च हि वक्त्रमाला वक्राक्षिपक्ष्माश्च सुनेत्रमालाः

विभूषणानां ददर्श मालाः शतह्रदानामिव चारुमालाः

त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम्

लतां प्रफुल्लामिव साधुजातां ददर्श तन्वीं मनसाऽभिजाताम्

सनातने वर्त्मनि सन्निविष्टां रामेक्षणान्तां मदनाभिविष्टाम्

भर्तुर्मनः श्रीमदनुप्रविष्टां स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम्

उष्णार्दितां सानुसृतास्रकण्ठीं पुरा वरार्होत्तमनिष्ककण्ठीम्

सुजातपक्ष्मामभिरक्तकण्ठीं वने प्रनृत्तामिव नीलकण्ठीम्

अव्यक्तरेखामिव चन्द्ररेखां पांसुप्रदिग्धामिव हेमरेखाम्

क्षतप्रूढामिव बाणरेखां वायुप्रभिन्नामिव मेघरेखाम्

सीतामपश्यन् मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य

बभूव दुःखाभिहतश्चिरस्य प्लवङ्गमो मन्द इवाचिरस्य