Kanda 4 KSK-067-Hanuma asserts his capabilities to leap the ocean

तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम्

वीर्येणापूर्यमाणं सहसा वानरोत्तमम्

सहसा शोकमुत्सृज्य प्रहेर्षेण समन्वताः

विनेदुस्तुष्टुवुश्चापि हनुमन्तं महाबलम्

प्रहृष्टा विस्मिताश्चैव वीक्षन्ते स्म समन्ततः

त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः

संस्तूयमानो हनुमान् व्यवर्धत महाबलः

समाविध्य लाङ्गूलं हर्षाच्च बलमोयिवान्

तस्य संस्तूयमानस्य वृद्धैर्वानरपुङ्गवैः

तेजसापूर्यमाणस्य रूपमासीदनुत्तमम्

यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे

मारुतस्यौरसः पुत्त्रस्तथा सम्प्रति जृम्भते

अशोभत मुखं तस्य जृम्भमाणस्य धीमतः

अम्बरीषमिवादीप्तं विधूम इव पावकः

हरीणामुत्थितो मध्यात्सम्प्रहृष्टतनूरुहः

अभिवाद्य हरीन्वृद्धान् हनुमानिदमब्रवीत्

अरुजत्पर्वताग्राणि हुताशनसखोऽनिलः

बलवानप्रमेयश्च वायुराकाशगोचरः

तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः

मारुतस्यौरसः पुत्त्रः प्लवने नास्ति मत्समः

उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम्

मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः

बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे

समाप्लावयितुं लोकं सपर्वतनदीह्रदम्

ममोरुजङ्घवेगेन भविष्यति समुत्थितः

समुच्छ्रितमहाग्राहः समुद्रो वरुणालयः

पन्नगाशनमाकाशे पतन्तं पक्षिसेविते

वैनतेयमहं शक्तः परिगन्तुं सहस्रशः

उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम्

अनस्तमितमादित्यमभिगन्तुं समुत्सहे

ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे

प्रवेगेनैव महता भीमेन प्लवगर्षभाः

उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान्

सागरं शोषयिष्यामि दारयिष्यामि मेदिनीम्

पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमाः

हरिष्याम्यूरुवेगेन प्लवमानो महार्णवम्

लतानां विविधं पुष्पं पादपानां सर्वशः

अनुयास्यन्ति मामद्य प्लवमानं विहायसा

भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे

चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव वा

द्रक्ष्यन्ति निपतन्तं सर्वभूतानि वानराः

महामेघप्रतीकाशं मां द्रक्ष्यथ वानराः

विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान्

सागरं क्षोभयिष्यामि प्लवमानः समाहितः

वैनतेयस्य सा शक्तिर्मम या मारुतस्य वा

ऋते सुपर्णराजानं मारुतं वा महाजवम्

तद्भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत्

निमेषान्तरमात्रेण निरालम्बनमम्बरम्

सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता

भविष्यति हि मे रूपं प्लवमानस्य सागरे

विष्णोर्विक्रममाणस्य पुरा त्रीन् विक्रमानिव

बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा मे तथा

अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः

मारुतस्य समो वेगे गरुडस्य समोजवे

अयुतं योजनानां तु गमिष्यामीति मे मतिः

वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः

विक्रम्य सहसा हस्तादमृतं तदिहानये

लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः

तमेवं वानरश्रेष्ठं गर्जन्तममितौजसम्

प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः

तस्य तद्वचनं श्रुत्वा ज्ञातीनां शोकनाशनम्

उवाच परिसंहृष्टो जाम्बवान् हरिसत्तमम्

वीरकेसरिणः पुत्र हनुमन् मारुतात्मज

ज्ञातीनां विपुलः शोकस्त्वया तात विनाशितः

तव कल्याणरुचयः कपिमुख्याः समागताः

ऋषीणां प्रसादेन कपिवृद्धमतेन

गुरूणां प्रसादेन प्लवस्व त्वं महार्णवम्

त्वद्गतानि सर्वेषां जीवितानि वनौकसाम्

ततस्तु हरिशार्दूलस्तानुवाच वनौकसः

एतानीह नगस्यास्य शिलासङ्कटशालिनः

शिखराणि महेन्द्रस्य स्थिराणि महान्ति

एषु वेगं करिष्यामि महेन्द्रशिखरेष्वहम्

नानाद्रुमविकीर्णेषु धातुनिःष्यन्दशोभिषु

एतानि मम निष्पेषं पादयोः प्लवतां वराः

प्लवतो धारयिष्यन्ति योजनानामितः शतम्

ततस्तं मारुतप्रख्यः हरिर्मारुतात्मजः

आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः

वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम्

लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम्

सिंहशार्दूलचरितं मत्तमातङ्गसेवितम्

मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसङ्कुलम्

महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं महाबलः

विचचार हिरश्रेष्ठो महेन्द्रसमविक्रमः

पादाभ्यां पीडितस्तेन महाशैलो महात्मनः

रराज सिंहाभिहतो महान्मत्त इव द्विपः

मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः

वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः

नागगन्धर्वमिथुनैः पानसंसर्गकर्कशैः

उत्पतद्भिश्च विहगैर्विद्याधरगणैरपि

त्यज्यमानमहासानुः सन्निलीनमहोरगः

चलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः

निःश्वसद्भिस्तदाऽऽर्तैस्तु भजङ्गैरर्धनिस्सृतैः

सपताक इवाभाति तदा धरणीधरः

ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः

सीदन्महति कान्तारे सार्थहीन इवाध्वगः

वेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता

मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी