Kanda 4 KSK-065-Monkeys fear to jump the ocean

ततोऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः

स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम्

गजो गवाक्षो गवयः शरभो गन्धमादनः

मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा

आबभाषे गजस्तत्र प्लवेयं दशयोजनम्

गवाक्षो योजनान्याह गमिष्यामीति विंशतिम्

गवयो वानरस्तत्र वानरांस्तानुवाच

त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः

शरभस्तानुवाचाथ वानरान् वानरर्षभः

चत्वारिंशद्गमिष्यामि योजनानां प्लवङ्गमाः

वानरस्तु महातेजा अब्रवीद्गन्धमादनः

योजनानां गमिष्यामि पञ्चाशत्तु संशयः

मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच

योजनानां परं षष्टिमहं प्लवितुमुत्सहे

ततस्तत्र महातेजा द्विविदः प्रत्यभाषत

गमिष्यामि सन्देहः सप्ततिं योजनान्यहम्

सुषेणस्तु हरिश्रेष्ठः प्रोक्तवान् कपिसत्तमान्

अशीतिं योजनानां तु प्लवेयं प्लवगेश्वराः

तेषां कथयतां तत्र सर्वांस्ताननुमान्य

ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत

पूर्वमस्माकमप्यासीत् कश्चिद्गतिपराक्रमः

ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम्

किन्तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम्

यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ

नवतिं योजनानां तु गमिष्यामि संशयः

तांस्तु सर्वान् हरिश्रेष्ठाञ्जाम्बवान् पुनरब्रवीत्

खल्वेतावदेवासीद्गमने मे पराक्रमः

मया महाबलेश्चैव यज्ञे विष्णुः सनातनः

प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम्

इदानीमहं वृद्धः प्लवने मन्दविक्रमः

यौवने तदाऽऽसीन्मे बलमप्रतिमं परैः

सम्प्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम्

नैतावता संसिद्धिः कार्यस्यास्य भविष्यति

अथोत्तरमुदारार्थमब्रवीङ्गदस्तदा

अनुमान्य महाप्राज्ञं जाम्बवन्तं महाकपिः

अहमेतद्गमिष्यामि योजनानां शतं महत्

निवर्तने तु मे शक्तिः स्यान्न वेति निश्चिता

तमुवाच हरिश्रेष्ठं जाम्बवान् वाक्यकोविदः

ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम

कामं शतं सहस्रं वा नह्येष विधिरुच्यते

योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम्

नहि प्रेषयिता तात स्वामी प्रेष्यः कथञ्चन

भवताऽयं जनः सर्वः प्रेष्यः प्लवगसत्तम

स्वामी कलत्रं सैन्यस्य गरितेषा परन्तप

तस्मात्कलत्रवत्तात प्रतिपाल्यः सदा भवान्

मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः

मूले हि सति सिद्ध्यन्ति गुणाः पुष्पफलोदयाः

तद्भवानस्य कार्यस्य साधने सत्यविक्रम

बुद्धिविक्रमसम्पन्नो हेतुरत्र परन्तप

गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम

भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने

उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः

प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः

यदि नाहं गमिष्यामि नान्ये वानरपुङ्गवाः

पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम्

ह्यकृत्वा हरिपतेः सन्देशं तस्य धीमतः

तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम्

हि प्रसादे चात्यर्थं कोपे हरिरीश्वरः

अतीत्य तस्य सन्देशं विनाशो गमने भवेत्

तद्यथा ह्यस्य कार्यस्य भवत्यन्यथा गतिः

तद्भवानेव दृष्टार्थः सञ्चिन्तयितुमर्हति

सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः

अस्य ते वीर कार्यस्य किञ्चित्परिहीयते

एष सञ्चोदयाम्येनं यः कार्यं साधयिष्यति

ततः प्रतीतं प्लवतां वरिष्ठमेकान्तमाश्रित्य सुखोपविष्टम्

सञ्चोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव