Kanda 4 KSK-058-Sampaati informs Angada about Seetha

इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः

सबाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः

यवीयान् मम भ्राता जटायुर्नाम वानराः

यमाख्यात हतं युद्धे रावणेन बलीयसा

वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये

नहि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे

पुरा वृत्रवधे वृत्ते परस्परजयैषिणौ

आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम्

आवृत्त्याकाशमार्गे तु जवेन स्म गतौ भृशम्

मध्यं प्राप्ते दिनकरे जटायुरवसीदति

तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरार्दितम्

पक्षाभ्यां छादयामास स्नेहात्परमविह्विलः

निर्दग्धपक्षः पतितो विन्ध्येऽहं वानरर्षभाः

अहमस्मिन्वसन्भ्रातुः प्रवृत्तिं नोपलक्षये

जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा

युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा

जटायुषो यदि भ्राता श्रुतं ते गदितं मया

आख्याहि यदि जानासि निलयं तस्य रक्षसः

अदीर्घदर्शनं तं वै रावणं राक्षसाधिपम्

अन्तिके यदि वा दूरे यदि जानासि शंस नः

ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः

आत्मानुरूपं वचनं वानरान् सम्प्रहर्षयन्

निर्दग्धपक्षो गृध्रोऽहं हीनवीर्यः प्लवङ्गमाः

वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम्

जानामि वारुणान् लोकान् विष्णोस्त्रैविक्रमानपि

महासुरविमर्दान्वाप्यमृतस्य मन्थनम्

रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया

जरया हृतं तेजः प्राणाश्च शिथिला मम

तरुणी रूपसम्पन्ना सर्वाभरणभूषिता

ह्रियमाणा मया दृष्टा रावणेन दुरात्मना

क्रोशन्ती राम रामेति लक्ष्मणेति भामिनी

भूषणान्यपविध्यन्ती ग्रात्राणि विधून्वती

सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम्

असिते राक्षसे भाति यथा वा तडिदम्बुदे

तां तु सीतामहं मन्ये रामस्य परिकीर्तनात्

श्रूयतां मे कथयतो निलयं तस्य रक्षसः

पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य

अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः

इतो द्वीपः समुद्रस्य सम्पूर्णे शतयोजने

तस्मिन् लङ्का पुरी रम्या निर्मिता विश्वकर्मणा

जाम्बूनदमयैर्द्वारैश्चित्रैः काञ्चनवेदिकैः

प्राकारेणार्कवर्णेन महता सुसमावृता

तस्यां वसति वैदेही दीना कौशेयवासिनी

रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता

जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम्

लङ्कायामथ गुप्तायां सागरेण समन्ततः

सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम्

आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम्

तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः

ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ

आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः

द्वीतीयो बलिभोजानां ये वृक्षफलाशिनः

भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह

श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम्

षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा

वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः

इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा

अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा

तस्मादाहारवीर्येण निसर्गेण वानराः

आयोजनशतत्साग्राद्वयं पश्याम नित्यशः

अस्माकं विहिता वृत्तिर्निसर्गेण दूरतः

विहिता पादमूले तु वृत्तिश्चरणयोधिनाम्

गर्हितं तु कृतं कर्म येन स्म पिशिताशिना

प्रतीकार्यं मे तस्य वैरं भ्रातुः कृतं भवेत्

उपायो दृश्यतां कश्चिल्लङ्घने लवाणाम्भसः

अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ

समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम्

प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः

ततो नीत्वा तु तं देशं तीरं नदनदीपतेः

निर्दग्धपक्षं सम्पातिं वानराः सुमहौजसः

पुनः प्रत्यानयित्वा तं देशं पतगेश्वरम्

बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते