Kanda 4 KSK-056-Sampaati hears of Jataayu s death

उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले

हरयो गृध्रराजश्च तं देशमुपचक्रमे

सम्पातिर्नाम नाम्ना तु चिरञ्चीवी विहङ्गमः

भ्राता जटायुषः श्रीमान् प्रख्यातबलपौरुषः

कन्दरादभिनिष्क्रम्य विन्ध्यस्य महागिरेः

उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत्

विधिः किल नरं लोके विधानेनानुवर्तते

याथाऽयं विहितो भक्ष्याश्चिरान्मह्यामुपागतः

परं पराणां भक्षिष्ये वानराणां मृतं मृतम्

उवाचेदं वचः पक्षी तान्निरीक्ष्य प्लवङ्गमान्

तस्य तद्वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः

अङ्गदः परमायस्तो हमुमन्तमथाब्रवीत्

पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः

इमं देशमनुप्राप्तो वानराणां विपत्तये

रामस्य कृतं कार्यं राज्ञो वचः कृतम्

हरिणामियमज्ञाता विपत्तिः सहसागता

वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा

गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः

प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम्

अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः

तेन तस्योपकारार्थं त्यजतात्मानमात्मना

प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा

राघवार्थे परिश्रान्ता वयं सन्त्यक्तजीविताः

कान्ताराणि प्रपन्नाः स्म पश्याम मैथिलीम्

सुखी गृध्रराजस्तु रावणेन हतो रणे

मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम्

जटायुषो विनाशेन राज्ञो दशरथस्य

हरणेन वैदेह्याः संशयं हरयो गताः

रामलक्ष्मणयोर्वास अरण्ये सह सीतया

राघवस्य बाणेन वालिनश्च तथा वधः

रामकोपादशेषाणां राक्षसानां तथा वधः

कैकेय्या वरदानेन इदं हि विकृतं कृतम्

तदसुखमनुकीर्तितं वचो भुवि पतितांश्च समीक्ष्य वानरान्

भृशचिलतमतिर्महामतिः कृपणमुदाहृतवान् गृध्रराट्

तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम्

अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः

कोऽयं गिरा घोषयति प्राणैः प्रियतमस्य मे

जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः

कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः

नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम्

इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम्

यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः

अतिदीर्घस्य कालस्य तुष्टोऽस्मि परिकीर्तनात्

तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः

भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः

तस्यैव मम भ्रातुः सखा दशरथः कथम्

यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः

सूर्यांशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम्

इच्छेयं पर्वतादस्मादवतर्तुमरिन्दमाः