Kanda 4 KSK-053-Prayo Upavesha Nishchayaha

एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम्

उवाच हनुमान् वाक्यं तामनिन्दितचेष्टिताम्

शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि

यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना

कालो ह्यतिक्रान्तो बिले परिवर्तताम्

सा त्वमस्माद्विलाद् घोरादुत्तारयितुमर्हसि

तस्मात्सुग्रीववचनादतिक्रान्तान् गतायुषः

त्रातुमर्हसि नः सर्वान् सुग्रीवभयकर्शितान्

महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि

तच्चापि कृतं कार्यमस्माभिरिहवासिभिः

एवमुक्ता हनुमता तापसी वाक्यमब्रवीत्

जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम्

तपसस्तु प्रभावेन नियमोपार्जितेन

सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान्

निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः

नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः

ततः सम्मीलिताः सर्वे सुकुमाराङ्गुलैः करैः

सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षया

वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा

निमेषान्तरमात्रेण बिलादुत्तारितास्तया

ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी

निःसृतान् विषमात्तस्मात्समाश्वास्येदमब्रवीत्

एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलताकुलः

एष प्रस्रवणः शैलः सागरोऽयं महोदधिः

स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः

इत्युक्त्वा तद्बिलं श्रीमत् प्रविवेश स्वयम्प्रभा

ततस्ते ददृशुर्घोरं सागरं वरुणालयम्

अपारमभिगर्जन्तं घोरैरूर्मिभिरावृतम्

मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम्

तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः

विन्ध्यस्यतु गिरेः पादे सम्प्रपुष्पितपादपे

उपविश्य महात्मानश्चिन्तामापेदिरे तदा

ततः पुष्पातिभाराग्रान् लताशतसमावृतान्

द्रुमान् वासन्तिकान्दृष्ट्वा बभूवुर्भयशङ्किताः

ते वसन्तमनुप्राप्तं प्रतिबुद्ध्वा परस्परम्

नष्टसन्देशकालार्था निपेतुर्धरणीतले

ततस्तान्कपिवृद्धांस्तु शिष्टां श्चैव वनौकसः

वाचा मधुरयाऽऽभाष्य यथावदनुमान्य

तु सिंहवृषस्कन्धः पीनायतभुजः कपिः

युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत्

शासनात्कपिराजस्य वयं सर्वे विनिर्गताः

मासः पूर्णो बिलस्थानां हरयः किन्न बुध्यते

वयमाश्वयुजे मासि कालसङ्ख्याव्यवस्थिताः

प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम्

भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः

हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु

कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः

मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः

इदानीमकृतार्थानां मर्तव्यं नात्र संशयः

हरिराजस्य सन्देशमकृत्वा कः सुखी भवेत्

तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम्

प्रायोपवेशनं युक्तं सर्वेषां वनौकसाम्

तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः

क्षमिष्यति नः सर्वानपराधकृतो गतान्

अप्रवृत्तौ सीतायाः पापमेव करिष्यति

तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः

ध्रुवं नो हिंसिता राजा सर्वान् प्रतिगतानितः

वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः

चाहं यौवराज्येन सुग्रीवेणाभिषेचितः

नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा

पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम्

घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः

किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे

इहैव प्रायमासिष्ये पुण्ये सागररोधसि

एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम्

सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन्

तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः

अदृष्टायां तु वैदेह्यां दृष्ट्वा चैव समागतान्

राघवप्रियकामार्थं घातयिष्यत्यसंशयम्

क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः

इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा

नो चेद्गच्छाम तं वीरं गमिष्यामो यमक्षयम्

प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे

अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः

इदं हि मायाविहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयकम्

इहास्ति नो नैव भयं पुरन्दरान्न राघवाद्वानरराजतोऽपि वा

श्रुत्वाऽङ्गदस्यापि वचोऽनुकूलमूचुश्च सर्वे५ हरयः प्रतीताः

यथा हिंस्येम तथा विधानमसक्तमद्यैव विधीयतां नः