Kanda 4 KSK-051-Swayam Prabha Vruthantha Kathanam

इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम्

अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम्

इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्

क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः

महद्धरण्या विवरं प्रविष्टाः स्म पिपासिताः

इमास्त्वेवंविधान् भावान् विविधानद्भुतोपमान्

दृष्ट्वा वयं प्रव्यथिताः सन्भ्रान्ता नष्टचेतसः

कस्यैते काञ्चना वृक्षास्तरुणादित्यसन्निभाः

शुचीन्यभ्यवहार्याणि मूलानि फलानि

काञ्चनानि विमानानि राजतानि गृहाणि

तपनीयगवाक्षणि मणिजालावृतानि

पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धिनः

इमे जाम्बूनदमयाः पादपाः कस्य तेजसा

काञ्चनानि पद्मानि जातानि विमले जले

कथं मत्स्याश्च सौवर्णाश्चरन्ति सह कच्छपैः

आत्मानमनुभावं कस्य चैतत्तपोबलम्

एवमुक्ता हनुमता तापसी धर्मचारिणी

प्रत्युवाच हनूमन्तं सर्वभूतहिते रता

मयो नाम महातेजा मायावी दानवर्षभः

तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम्

पुरा दानवमुख्यानां विश्वकर्मा बभूव

येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम्

तु वर्षसहस्राणि तपस्तप्त्वा महावने

पितामहाद्वरं लेभे सर्वमौशनसं धनम्

वनं विधाय बलवान् सर्वकामेश्वरस्तदा

उवास सुखितः कालं कञ्चिदस्मिन् महावने

तमप्सरसि हेमायां सक्तं दानवपुङ्गवम्

विक्रम्यैवाशनिं गृह्य जघानेशः पुरन्दरः

इदं ब्रह्माणा दत्तं हेमायै वनमुत्तमम्

शाश्वताः कामभोगाश्च गृहं चेदं हिरण्मयम्

दुहिता मेरुसावर्णेरहं तस्याः स्वयम्प्रभा

इदं रक्षामि भवनं हेमाया वानरोत्तम

मम प्रियसखी हेमा नृत्तगीतविशारदा

तया दत्तवरा चास्मि रक्षामि भवनोत्तमम्

किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपश्यथ

कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम्

इमान्यभ्यवहार्याणि मूलानि फलानि

भुक्त्वा पीत्वा पानीयं सर्वं मे वक्तुमर्हथ