Kanda 4 KSK-049-Lodhra Saptha Parna Vanaanveshana

अथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत्

परिश्रान्तो महाप्राज्ञः समाश्वस्य शनैर्वचः

वनानि गिरयो नद्यो दुर्गाणि गहनानि

दर्यो गिरिगुहाश्चैव विचितानि समन्ततः

तत्र तत्र सहास्माभिर्जानकी दृश्यते

तद्वा रक्षो हृता येन सीता सुरसुतोपमा

कालश्च वो महान् यातः सुग्रीवश्चोग्रशासनः

तस्माद्भवन्तः सहिता विचिन्वन्तु समन्ततः

विहाय तन्द्रीं शोकं निद्रां चैव समुत्थिताम्

विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम्

अनिर्वेदं दाक्ष्यं मनसश्चापराजयः

कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम्

अद्यापि तद्वनं दुर्गं विचिन्वन्तु वनौकसः

खेदं त्यक्त्वा पुनः सर्वैर्वनमेतद्विचीयताम्

अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम्

अलं निर्वेदमागम्य नहि नो मीलनं क्षमम्

सुग्रीवः कोपनो राजा तीक्ष्णदण्डश्च वानरः

भेतव्यं तस्य सततं रामस्य महात्मनः

हितार्थमेतदुक्तं वः क्रियतां यदि रोचते

उच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः

अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः

उवाचाव्यक्तया वाचा पिपासाश्रमखिन्नया

सदृशं खलु वो वाक्यमङ्गदो यदुवाच

हितं चैवानुकूलं क्रियतामस्य भाषितम्

पुनर्मार्गामहै शैलान् कन्दरांश्च दरीस्तथा

काननानि शून्यानि गिरिप्रस्रवणानि

यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना

विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः

ततः समुत्थाय पुनर्वानरास्ते महाबलाः

विन्ध्यकाननसङ्कीर्णां विचेरुर्दक्षिणां दिशम्

ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम्

शृङ्गवन्तं दरीमन्तमधिरुह्य वानराः

तत्र कोद्रवनं रम्यं सप्तपर्णवनानि

व्यचिन्वंस्ते हरिवराः सीतादर्शनकाङ्क्षिणः

तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः

पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम्

ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम्

अवारोहन्त हरयो वीक्षमाणाः समन्ततः

अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः

स्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः

ते मुहूर्तं समाश्वस्ताः किञ्चिद्भग्नपरिश्रमाः

पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम्

हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः

विन्ध्यमेवादितस्तावद्विचेरुस्ते ततस्ततः