Kanda 4 KSK-046- Dundubhi Vruthanthaha

गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत्

कथं भवान् विजानीते सर्वं वै मण्डलं भुवः

सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान्

श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ

यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम्

परिकालयते वाली मलयं प्रति पर्वतम्

तदा विवेश महिषो मलयस्य गुहां प्रति

विवेश वाली तत्रापि मलयं तज्जिघांसया

ततोऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत्

निष्क्रमते वाली तदा संवत्सरे गते

ततः क्षतजवेगेन आपुपूरे तदा बिलम्

तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः

अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः

शिला पर्वतसङ्काशा बिलद्वारि मयावृता

ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते

राज्यं सुमहत्प्राप्तं तारया रुमया सह

मित्रैश्च सहितस्तत्र वसामि विगतज्वरः

आजगाम ततो वाली हत्वा तं दानवर्षभम्

ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः

मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः

परिकालयते क्रोधाद्धावन्तं सचिवैस्सह

ततोऽहं वालिना तेन सानुबन्धः प्रधावितः

नदीश्च विविधाः पश्यन् वनानि नगराणि

आदर्शतलसङ्काशा ततो वै पृथिवी मया

अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा

पूर्वां दिशं ततो गत्वा पश्यामि विविधान् द्रुमान्

पर्वतांश्च नदी रम्याः सरांसि विविधानि

उदयं तत्र पश्यामि पर्वतं धातुमण्डितम्

क्षीरोदं सागरं चैव नित्यमप्सरसालयम्

परिकालयमानस्तु वालिनाऽभिद्रुतस्तदा

पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो

पुनरावर्तमानस्तु वालिनाऽभिद्रुतो द्रुतम्

दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम्

विन्ध्यपादप सङ्कीर्णां चन्दनद्रुमभूषिताम्

द्रुमशैलांस्ततः पश्यन् भूयो दक्षिणतोऽपरान्

सम्पश्यन् विविधान् देशानस्तं गिरिसत्तमम्

प्राप्य चास्तं गिरिश्रेष्ठमुत्तरां सम्प्रधावितः

हिमवन्तं मेरुं समुद्रं तथोत्तरम्

यदा विन्दं शरणं वालिना समभिद्रुतः

तदा मां बुद्धिसम्पन्नो हनुमान् वाक्यमब्रवीत्

इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः

मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले

प्रविशेद्यदि वै वाली मूर्धाऽस्य शतधा भवेत्

तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति

ततः पर्वतमासाद्य ऋश्यमूके नृपात्मज

विवेश तदा वाली मतङ्गस्य भयात्तदा

एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम्

पृथिवीमण्डलं कृत्स्नं गुहामस्यागतस्तः