Kanda 4 KSK-045-Vanarasena Prasthanam

समस्तानब्रवीद्भूयो रामकार्यार्थसिद्धये

एवमेतद्विचेतव्यं यन्मया परिकीर्तितम्

तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः

शलभा इव सञ्छाद्य मेदिनीं सम्प्रतस्थिरे

रामः प्रस्रवणे तस्मिन् न्यवसत्सहलक्ष्मणः

प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः

उत्तरां तु दिशं रम्यां गिरिराजसमावृताम्

प्रतस्थे सहसा वीरो हरिः शतवलिस्तदा

पूर्वां दिशं प्रति ययौ विनतो हरियूथपः

ताराङ्गदादिसहितः प्लवगो मारुतात्मजः

पश्चिमां तु भृशं घोरां सुषेणः प्लवगेश्वरः

प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम्

ततः सर्वा दिशो राजा चोदयित्वा यथा तथम्

कपिसेनापतीन् मुख्यान् मुमोद सुखितः सुखम्

एवं सम्बोधिताः सर्वे राज्ञा वानरयूथपाः

स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे

नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः

क्ष्वेलन्तो धावमानाश्च विनदन्तो महाबलाः

अहमेको हनिष्यामि प्राप्तं रावणमाहवे

ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम्

वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिह

एक एवाहरिष्यामि पातालादपि जानकीम्

विमथिष्याम्यहं वृक्षान् पातयिष्याम्यहं गिरीन्

धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान्

अहं योजनसङ्ख्यायाः प्लविता नात्र संशयः

शतं योजनसङ्ख्यायाः शतं समधिकं ह्यहम्

भूतले सागरे वापि शैलेषु वनेषु

पातालस्यापि वा मध्ये ममाच्छिद्यते गतिः

इत्येकैकं तदा तत्र वानरा बलदर्पिताः

ऊचुश्च वचनं तत्र हरिराजस्य सन्निधौ