Kanda 4 KSK-044-Hanumathe Ramena Mudrikaa Pradanam

विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान्

हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने

अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम्

सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम्

भूमौ नान्तरिक्षे वा नाम्बरे नामरालये

नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुङ्गव

सासुराः सहगन्धर्वाः सनागनरदेवताः

विदिताः सर्वलोकास्ते ससागरधराधराः

गतिर्वेगश्च तेजश्च लाघवं महाकपे

पितुस्ते सदृशं वीर मारुतस्य महौजसः

तेजसा वापि ते भूतं समं भुवि विद्यते

तद्यथा लभ्यते सीता तत् त्वमेवोपपादय

त्वय्येव हनुमान् स्वस्ति बलं बुद्धिः पराक्रमः

देशकालानुवृत्तिश्च नयश्च नयपण्डित

ततः कार्यसमासङ्गमवगम्य हनूमति

विदित्वा हनुमानं चिन्तयामास राघवः

सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः

निश्चितार्थकरश्चापि हनुमान् कार्यसाधने

तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः

भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः

व्यवसायोत्तरं व्यवसायेन उत्तरं श्रेष्ठम्

कृतार्थः संवृत्त इव, अमन्यतेति शेषः

ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम्

अङ्गुलीयमभिज्ञानं राजपुत्र्याः परन्तपः

अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा

मत्सकाशादनुप्राप्तमनुद्विग्नाऽनुपश्यति

व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः

सुग्रीवस्य सन्देशः सिद्धिं कथयतीव मे

तं गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः

वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः

तत्प्रकर्षन् हरिणां बलं महद्बभूव वीरः पवनात्मजः कपिः

गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः

अतिबल बलमाश्रितस्तवाहं हरिवरविक्रम विक्रमैरनल्पैः

पवनसुत यथाऽभिगम्यते सा जनकसुता हनुमान् तथा कुरुष्व