Kanda 4 KSK-041-Dakshina Disham Prathi Hanumadadi Preshanam

ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम्

दक्षिणां प्रेषयामास वानरानभिलक्षितान्

नीलमग्निसुतं चैव हनुमन्तं वानरम्

पितामहसुतं चैव जाम्बवन्तं महाबलम्

सुहोत्रं शरारिं शरगुल्मं तथैव

गजं गवाक्षं गवयं सुषेणमृषभं तथा

मैन्दं द्विविदं चैव विजयं गन्धमादनम्

उल्कामुखमसङ्गं हुताशनसुतावुभौ

अङ्गदप्रमुखान्वीरान् वीरः कपिगणेश्वरः

वेगविक्रमसम्पन्नान् सन्दिदेश विशेषवित्

तेषामग्रेसरं चैव महद्वलमसङ्गम्

विधाय हरिवीराणामादिशद्दक्षिणां दिशम्

ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः

कपीशः कपिमुख्यानां तेषां तानुदाहरत्

सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम्

नर्मदां नदीं दुर्गां महोरगनिषेविताम्

ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम्

वरदां महाभागां महोरगनिषेविताम्

मेखलामुत्कलां चैव दशार्णनगराण्यपि

अश्ववन्तीमवन्तीं सर्वमेवानुपश्यत

विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि

तथा वङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः

नदीं गोदावरीं चैव सर्वमेवानुपश्यत

तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यान् सकेरलान्

अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः

विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः

सचन्दनवनोद्देशो मार्गितव्यो महागिरिः

ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम्

तत्र द्रक्ष्यथ कावेरीं विहितामप्सरोगणैः

तस्यासीनं नगस्याग्रे मलयस्य महौजसम्

द्रक्ष्यथादित्यसङ्काशमगस्त्यमृषिसत्तमम्

ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना

ताम्रपणीं ग्राहजुष्टां तरिष्यथ महानदीम्

सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीपशालिनी

कान्तेव युवतिः कान्तं समुद्रमवगाहते

ततो हेममयं दिव्यं मुक्तामणिविभूषितम्

युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः

ततः समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम्

अगस्त्येनान्तरे तत्र सागरे विनिवेशितः

चित्रनानानगः श्रीमान् महेन्द्रः पर्वतोत्तमः

जातरूपमयः श्रीमानवगाढो महार्णवम्

नानाविधैर्नगैः सर्वैर्लताभिश्चोपशोभितम्

देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम्

सिद्धचारणसङ्घैश्च प्रकीर्णं सुमनोहरम्

तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु

अगम्यो मानुषैर्दीप्तस्तं मार्गध्व समन्ततः

तत्र सर्वात्मना सीता मार्गितव्या विशेषतः

हि देशस्तु वध्यस्य रावणस्य दुरात्मनः

राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः

दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी

अङ्गारकेति विख्याता छायामाकृष्य भोजनी

एवं निस्संशयान् कृत्वा संशयान्नष्टसंशयाः

मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः

तमतिक्रय्म लक्ष्मीवान् समुद्रे शतयोजने

गिरिः पुष्पितको नाम सिद्धचारणसेवितः

चन्द्रसूर्यांशुसङ्काशः सागराम्बुसमावृतः

भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव

तस्यैवं काञ्चनं शृङ्गं सेवते यं दिवाकरः

श्वेतं राजतमेकं सेवते यं निशाकरः

तं कृतघ्नाः पश्यन्ति नृशंसा नास्तिकाः

प्रणम्य शिरसा शैलं तं विमार्गत वानराः

तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः

अध्वना दुर्विगाहेन योजनानि चतुर्दश

ततस्तमप्यतिक्रम्य वैद्युतो नामपर्वतः

सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः

तत्र भुक्त्वा वरार्हाणि मूलानि फलानि

मधूनि पीत्वा मुख्यानि परं गच्छत वानराः

तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः

अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा

तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्

शरणं काञ्चनं दिव्यं नानारत्नविभूषितम्

तत्र भोगवती नाम सर्पाणामालयः पुरी

विशालकक्ष्या दुर्धर्षा सर्वतः परिरक्षिता

सर्पराजो महाप्राज्ञो यस्यां वसति वासुकिः

निर्याय मार्गितव्या सा भोगवती पुरी

तत्र चानन्तरा देशा ये केचन सुसंवृताः

तं देशमतिक्रम्य महानृषभसंस्थितः

सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः

तं देशमतिक्रम्य महानृषभसंस्थितः

सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः

तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं कदाचन

रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम्

तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः

शैलूषो ग्रामणीः शिग्रुः शुभ्रो बभ्रुस्तथैव

रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम्

अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः

ततः परं वः सेव्यः पितृलोकः सुदारुणः

राजधानी यमस्यैषां कष्टेन तमसा वृता

एतावदेव युष्माभिर्वीरा वानरपुङ्गवाः

शक्यं विचेतुं गन्तुं वा नातो गतिमातां गतिः

सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते

गतिं विदित्वा वैदेह्याः सन्निवर्तितुमर्हथ

यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति

मत्तुल्यविभवो भोगैः सुखं विहरिष्यति

ततः प्रियतरो नास्ति मम प्राणाद् विशेषतः

कृतापराधो बहुशो मम बन्धुर्भविष्यति

अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु प्रसूताः

मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरषार्थमारभध्वम्