Kanda 4 KSK-038-Rama Sugreeva Samvadhaha

प्रतिहृह्य तत्सर्वमुपायनमुपाहृतम्

वानरान् सान्त्वयित्वा सर्वानेव व्यसर्जयत्

विसर्जयित्वा हनीन् शूरांस्तान्कृतकर्मणः

मेने कृतार्थमात्मानं राघवं महाबलम्

अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन्

किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते

तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम्

सुग्रीवः परमप्रीतो वाक्यमेतदुवाच

एवं भवतु गच्छावः स्थेयं त्वच्छासने मया

तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम्

विसर्जयामास तदा तारामन्याश्च योषितः

एतेत्युच्चैर्हरिवरान् सुग्रीवः समुदाहरत्

तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः

बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः

तानुवाच ततः प्राप्तान् राजाऽर्कसदृशप्रभः

उपस्थापयत क्षिप्रं शिबिकां मम वानराः

श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः

समुपस्थापयामासुः शिबिकां प्रियदर्शनाम्

तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः

लक्ष्मणारुह्यातां शीघ्रमिति सौमित्रिमब्रवीत्

इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसन्निभम्

बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि

शुक्लैश्च वालव्यजनैर्धूयमानैः समन्ततः

शङ्खभेरीनिनादैश्च हरिभिश्चाभिनन्दितः

निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम्

वानरशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः

परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः

तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम्

अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः

आसाद्य ततो रामं कृताञ्जलिपुटोऽभवत्

कृताञ्जलौ स्थिते तस्मिन् वानराश्चाभवंस्तथा

तटाकमिव तद् दृष्ट्वा रामः कुड्मलपङ्कजम्

वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत्

पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम्

प्रेम्णा बहुमानाच्च राघवः परिषस्वजे

परिष्वज्य धर्मात्मा निषीदेति ततोऽब्रवीत्

तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः

धर्ममर्थं कामं यस्तु काले निषेवते

विभज्य सततं वीर राजा हरिसत्तम

हित्वा धर्मं तथाऽर्थं कामं यस्तु निषेवते

वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते

अमित्राणां वधे युक्तो मित्राणां सङ्ग्रहे रतः

त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते

उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन

सञ्चिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः

एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत्

त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया

तव देव प्रसादाच्च भ्रातुश्च जयतां वर

कृतं प्रतिकुर्याद्यः पुरुषाणां दूषकः

एते वानरमुख्याश्च शतशः शत्रुसूदन

प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान्

ऋक्षाश्चावहिताः शूरा गोलाङ्गूलाश्च राघव

कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः

देवगन्धर्वपुत्राश्च वानराः कामरूपिणः

स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव

शतैः शतसहस्रैश्च कोटिभिश्च प्लवङ्गमाः

अयुतैश्चावृता वीराः शङ्कुभिश्च परन्तप

समुद्रैश्च परार्धैश्च हरयो हरियूथपाः

आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः

ते त्वामभिगमिष्न्यन्ति राक्षसं ये सबान्धवम्

निहत्य रावणं सङ्ख्ये ह्यानयिष्यान्ति मैथिलीम्

ततस्तमुद्योगमवेक्ष्य बुद्धिमान् हरिप्रवीरस्य निदेशवर्तिनः

बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः