Kanda 4 KSK-037-Vanarasenaa Aagamanam

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना

हनुमन्तं स्थितं पार्श्वे सचिवं त्विदमब्रवीत्

महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु

मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः

तरुणादित्यवर्णेषु भ्राजमानेषु सर्वतः

पर्वतेषु समुद्रान्ते पश्चिमायां तु ये दिशि

आदित्यभवने चैव गिरौ सन्ध्याभ्रसन्निभे

पद्मतालवनं भीमं संश्रिता हरिपुङ्गवाः

अञ्जनाम्बुदसङ्काशाः कुञ्जरप्रतिमौजसः

अञ्जने पर्वते चैव ये वसन्ति प्लवङ्गमाः

मनःशिलागुहावासा वानराः कनकप्रभाः

मेरुपार्श्वगताश्चैव ये धूम्रगिरिसंश्रिताः

तरुणादित्यवर्णाश्च पर्वते महारुणे

पिबन्तो मधु मैरेयं भीमवेगाः प्लवङ्गमाः

वनेषु सुरम्येषु सुगन्धिषु महत्सु

तापसानां रम्येषु वनान्तेषु समन्ततः

तांस्तान् समानय क्षिप्रं पृथिव्यां सर्ववानरान्

सामदानादिभिः कल्पैराशु प्रेषय वानरान्

प्रेषिताः प्रथमं ये मया दूता महाजवाः

त्वरणार्थं तु भूयस्त्वं हरीन्सम्प्रेषयापरान्

ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः

इहानयस्व तान् सर्वान् शीघ्रं तु मम शासनात्

अहोभिर्दशभिर्ये हि नागच्छन्ति ममाज्ञया

हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः

शतान्यथ सहस्राणां कोट्यश्च मम शासनात्

प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः

मेघपर्वतसङ्काशाश्छादयन्त इवाम्बरम्

घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः

ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः

आनयन्तु हरीन् सर्वांस्त्वरिताः शासनान्मम

तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः

दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान्

ते पदं विष्णुविक्रान्तं पतत्ित्रज्योतिरध्वगाः

प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै

ते समुद्रेषु गिरिषु वनेषु सरस्सु

वानरा वानरान् सर्वान् रामहेतोरचोदयन्

मृत्युकालोपमस्याज्ञां राजराजस्य वानराः

सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः

ततस्तेऽञ्जनसङ्काशा गिरेस्तस्मान्महाजवाः

तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः

अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे स्थिताः

तप्तहेममहाभासस्तस्मात्कोट्यो दश च्युताः

कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम्

ततः कोटिसहस्राणि वानराणामुपागमन्

फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः

तेषां कोटिसहस्राणां सहस्रं समवर्तत

अङ्गारकसमानानां भीमानां भीमकर्मणाम्

विन्ध्याद् वानरकोटीनां सहस्राण्यपतन् द्रुतम्

क्षीरोदवेलानिलयास्तमालवनवासिनः

नारिकेलाशनाश्चैव तेषां सङ्ख्या विद्यते

वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवा

आगच्छद्वानरी सेना पिबन्तीव दिवाकरम्

ये तु त्वरयितुं याता वानराः सर्ववानरान्

ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम्

तस्मिन् गिरिवरे रम्ये यज्ञो माहेश्वरः पुरा

सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः

अन्ननिष्यन्दजातानि मूलानि फलानि

अमृतास्वादकल्पानि ददृशुस्तत्र वानराः

तदन्नसम्भवं दिव्यं फलं मूलं मनोहरम्

यः कश्चित्सकृदश्नाति मासं भवति तर्पितः

तानि मूलानि दिव्यानि फलानि फलाशनाः

औषधानि दिव्यानि जगृहुर्हरियूथपाः

तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि

आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात्

ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान्

सञ्चोदयित्वा त्वरिता यूथानां जग्मुरग्रतः

ते तु तेन मुहूर्तेन यूथपाः शीघ्रगामिनः

किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः

ते गृहीत्वौषधीः सर्वाः फलं मूलं वानराः

तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन्

सर्वे परिगताः शैलाः समुद्राश्च वनानि

पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते

एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः

प्रतिजग्राह तत्प्रीतस्तेषां सर्वमुपायनम्