Kanda 4 KSK-033-Tharaya Lakshmana Prasadhanam

अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा

प्रविवेष गुहां घोरां किष्किन्धां रामशासनात्

द्वारस्था हरयस्तत्र महाकाया महाबलाः

बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः

निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम्

बभूवुर्हरयस्त्रस्ता चैनं पर्यवारयन्

तां रत्नमयीं श्रीमान् दिव्यां पुष्पितकाननाम्

रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम्

हर्म्यप्रासादसम्बाधां नानापण्योपशोभिताम्

सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम्

देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः

दिव्यमाल्याम्बरधरैः शोभितां प्रियदर्शनैः

मैरेयाणां मधूनां सम्मोदितमहापथाम्

ददर्श गिरिनद्यश्च विमलास्तत्र राघवः

अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य

गवयस्य गवाक्षस्य गजस्य शरभस्य

विद्युन्मालेश्च सम्पातेः सूर्याक्षस्य हनूमतः

वीरबाहोः सुबाहोश्च नलस्य महात्मनः

कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा

दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः

एतेषां कपिमुख्यानां राजमार्गे महात्मनाम्

ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः

पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि

प्रभूतधनाधान्यानि स्त्रीरत्नैः शोभितानि

पाण्डुरेण तु सालेन परिक्षिप्तं दुरासदम्

वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम्

शुक्लैः प्रासादशिखरैः कैलासशिखरोपमैः

सर्वकामफलैर्वृक्षैः पुष्पितै रुपशोभितम्

महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसन्निभैः

दिव्यपुष्पफलैर्वृक्षैः शीतच्छायैर्मनोरमैः

हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः

दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम्

सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः

अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः

सप्त कक्ष्या धर्मात्मा नानाजनसमाकुलाः

प्रविश्य सुमहद् गुप्तं ददर्शान्तःपुरं महत्

हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः

महार्हास्तरणोपेतैस्तत्र तत्रोपशोभितम्

प्रविशन्नेव सततं शुश्राव मधुरस्वरम्

तन्त्रीगीतसमाकीर्णं समगीतपदाक्षरम्

बह्वीश्च विविधाकारा रूपयौवनगर्विताः

स्त्रियः सुग्रीवभवने ददर्श महाबलः

दृष्ट्वाऽभिजनसम्पन्नाश्चित्रमाल्यकृतस्नजः

फलमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः

नातृप्तान्नापि चाव्यग्रान्नानुदात्तपरिच्छदान्

सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः

कूजितं नूपुराणां काञ्चीनां निनदं तथा

सन्निशम्य ततः श्रीमान् सौमित्रिर्लज्जितोऽभवत्

रोषवेगप्रकुपितः श्रुत्वा चाभरणस्वनम्

चकार ज्यास्वनं वीरो दिशः शब्देन पूरयन्

चारित्रेण महाबाहुरपकृष्टः लक्ष्मणः

तस्थावेकान्तमाश्रित्य रामशोकसमन्वितः

तेन चापस्वनेनाथ सुग्रीवः प्लवगाधिपः

विज्ञायागमनं त्रस्तः सञ्चचाल वरासनात्

अङ्गदेन यथा मह्यं पुरस्तात्प्रतिवेदितम्

सुव्यक्तमेष सम्प्राप्तः सौमित्रिर्भ्रातृवत्सलः

अङ्गदेन समाख्यातं ज्यास्वनेन वानरः

बुबुधे लक्ष्मणं प्राप्तं मुखं चास्य व्यशुष्यत

ततस्तारां हरिश्रेष्ठः सुग्रीवः प्रियदर्शनाम्

उवाच हितमव्यग्रस्त्राससम्भ्रान्तमानसः

किन्नु तत्कारणं सुभ्रु प्रकृत्या मृदुमानसः

सरोष इव सम्प्राप्तो येनायं राघवानुजः

किं पश्यसि कुमारस्य रोषस्थानमनिन्दिते

खल्वकारणे कोपमाहरेन्नरसत्तमः

यदस्य कृतमस्माभिर्बुध्यसे किञ्चिदप्रियम्

तद् बुद्ध्या सम्प्रधार्याशु क्षिप्रमर्हसि भाषितुम्

अथवा स्वयमेवैनं द्रष्टुमर्हसि भाषितुम्

वचनैः सान्त्वयुक्तैश्च प्रसादयितुमर्हसि

त्वद्दर्शनविशुद्धात्मा कोपं करिष्यति

नहि स्त्रिषु महात्मानः क्वचिर्त्कुवन्ति दारुणम्

त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रियमानसम्

ततः कमलपत्त्राक्षं द्रक्ष्याम्यहमरिन्दमम्

सा प्रस्खलन्ती मदविह्वलाक्षी प्रलम्बकाञ्चीगुणहेमसूत्रा

सलक्षणा लक्ष्मणसन्निधानं जगाम तारा नमिताङ्गयाष्टिः

तां समीक्ष्यैव हरीशपत्नीं तस्थावुदासीनतया महात्मा

अवाङ्मुखोऽभून्मनुजेन्द्रपुत्रः स्त्रीसन्निकर्षाद्विनिवृत्तकोपः

सा पानयोगाद्विनिवृत्तलज्जा दृष्टिप्रसादाच्च नरेन्द्रसूनोः

उवाच तारा प्रणयप्रगल्भं वाक्यं महार्थं परिसान्त्वपूर्वम्

किं कोपमूलं मनुजेन्द्रपुत्र कस्ते सन्तिष्ठति वाङ्निदेशे

कः शुष्कवृक्षं वनमापतन्तं दवाग्निमासीदति निर्विशङ्कः

तस्या वचनं श्रुत्वा सान्त्वपूर्वमसंशयम्

भूयः प्रणयदृष्टार्थं लक्ष्मणो वाक्यमब्रवीत्

किमयं कामवृत्तस्ते लुप्तधर्मार्थसङ्ग्रहः

भर्ता भर्तृहिते युक्ते चैनमवबुध्यसे

चिन्तयति राज्यार्थं नास्मान् शोकपरायणान्

सामात्यपरिषत्तारे पानमेवोपसेवते

मासांश्चतुरः कृत्वा प्रमाणं प्लवगेश्वरः

व्यीतीतांस्तान्मदव्यग्रो विहरन्नावबुध्यते

नहि धर्मार्थसिद्ध्यर्थं पानमेवं प्रशस्यते

पानादर्थश्च धर्मश्च कामश्च परिहीयते

धर्मलोपो महांस्तावत्कृते ह्यप्रतिकुर्वतः

अर्थलोपश्च मित्रस्य नाशे गुणवतो महान्

मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम्

तद्द्वयं तु परित्यक्तं तु धर्मे व्यवस्थितम्

तदेवं प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम्

यत्कार्यं कार्यतत्त्वज्ञे तदुदाहर्तुमर्हसि

सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यं मधुरस्वभावम्

तारा गतार्थे मनुजेन्द्रकार्ये विश्वासयुक्तं तमुवाच भूयः

कोपकालः क्षितिपालपुत्र चातिकोपः स्वजने विधेयः

त्वदर्थकामस्य जनस्य तस्य प्रमादमप्यर्हसि वीर सोढुम्

कोपं कथं नाम गुणप्रकृष्टः कुमार कुर्यादपकृष्टसत्त्वे

कस्त्वद्विधः कोपवशं हि गच्छेत्सत्त्वावरुद्धस्तपसः प्रसूतिः

जानामि रोषं हरिवीरबन्धोर्जानामि कार्यस्य कालसङ्गम्

जानामि कार्यं त्वयि यत्कृतं नस्तञ्चापि जानामि यदत्र कार्यम्

तच्चापि जानामि यथाऽविषह्यं बलं नरश्रेष्ठ शरीरजस्य

जानामि यस्मिंश्च जनेऽवबद्धं कामेन सुग्रीवमसक्तमद्य

कामतन्त्रे तव बुद्धिरस्ति त्वं वै यथा मन्युवशं प्रपन्नः

देशकालौ हि चार्थधर्मावपेक्षते कामरतिर्मनुष्यः

तं कामवृत्तं मम सन्निकृष्टं कामाभियोगाच्च निवृत्तलज्जम्

क्षमस्व तावत्परवीरहन्तस्त्वद्भ्रातरं वानरवंशनाथम्

महर्षयो धर्मतपोभिकामाः कामानुकामाः प्रतिबद्धमोहाः

अयं प्रकृत्या चपलः कपिस्तु कथं सज्जेत सुखेषु राजा

इत्येवमुक्त्वा वचनं महार्थं सा वानरी लक्ष्मणमप्रमेयम्

पुनः सखेलं मदविह्वलं भर्तुर्हितं वाक्यमिदं बभाषे

उद्योगस्तु चिराज्ञप्तः सुग्रवेण नरोत्तम

कामस्यापि विधेयेन तवार्थप्रतिसाधने

आगता हि महावीर्या हरयः कामरूपिणः

कोटीशतसहस्राणि नानानगनिवासिनः

तदागच्छ महाबाहो चारित्रं रक्षितं त्वया

अच्छलं मित्रभावेन सतां दारावलोकनम्

तारया चाभ्यनुज्ञातस्त्वरया चापि चोदितः

प्रविवेश महाबाहुरभ्यन्तरमरिन्दमः

ततः सुग्रवमासीनं काञ्चने परमासने

महार्हास्तरणोपेते ददर्शादित्यसन्निभम्

दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम्

दिव्यमाल्याम्बरधरं महेन्द्रमिव दुर्जयम्

दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम्

संरब्धतररक्ताक्षो बभूवान्तकसन्निभः

रुमां तु वीरः परिरभ्य गाढं वरासनस्थो वरहेमवर्णः

ददर्श सौमित्रिमदीनसत्त्वं विशालनेत्रः सुविशालनेत्रम्