Kanda 4 KSK-029-Hanumath Sugreeva Samvadaha

समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम्

सारसारवसङ्घुष्टं रम्यज्योत्स्नानुलेपनम्

समृद्धार्थं सुग्रीवं मन्दधर्मार्थसङ्ग्रहम्

अत्यर्थमसतां मार्गमेकान्तगतमानसम्

निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा

प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान्

स्वां पत्नीमभिप्रेतां तारां चापि समीप्सिताम्

विहरन्तमहोरात्रं कृतार्थं विगतज्वरम्

क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः

मन्त्रिषु न्यस्तकार्यं मन्त्रिणामनवेक्षकम्

उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम्

निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्

प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः

वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः

प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्

हरीश्वरमुपागम्य हनुमान् वाक्यमब्रवीत्

राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता

मित्राणां सङ्ग्रहः शेषस्तं भवान् कर्तुमर्हति

यो हि मित्रेषु कालज्ञः सततं साधु वर्तते

तस्य राज्यं कीर्तिश्च प्रतापश्चाभिवर्धते

यस्य कोशश्च दण्डश्च मित्राण्यात्मा भूमिप

समवेतानि सर्वाणि राज्यं महदश्नुते

तद्भावन् वृत्तसम्पन्नः स्थितः पथि निरत्यये

मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति

सन्त्यज्य सर्वकर्माणि मित्रार्थे योऽनुवर्तते

सम्भ्रमाद्धि कृतोत्साहः सोऽनर्थैर्नावरुध्यते

यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते

कृत्वा महतोप्यर्थान्न मित्रार्थेन युज्यते

यदिदं वीर कार्यं नो मित्रकार्यमरिन्दम

क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम्

तदिदं वीरकार्यं ते कालतीतमरिन्दम

कालमतीतं ते निवेदयति कालवित्

त्वरमाणोऽपि सन् प्राज्ञस्तव राजन् वशानुगः

कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः

अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः

तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव

हरीश्वर हरिश्रोष्ठानाज्ञापयितुमर्हसि

हि तावद्भवेत्कालो व्यतीतश्चेदनादृते

चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः

अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर

किं पुनः प्रतिकर्तुस्ते राज्येन धनेन

शक्तिमानपि विक्रान्तो वानरर्क्षगणेश्वर

कर्तुं दाशरथेः प्रीतिमाज्ञायां किं सज्जसे

कामं खलु शरैः शक्तः सुरासुरमहोरगान्

वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते

प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम्

तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे

देवा गन्धर्वा नासुरा मरुद्गणाः

यक्षा भयं तस्य कुर्युः किमुत राक्षसाः

तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तव

रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम्

नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे

कस्यचित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया

तदाज्ञापय कः किं ते कृते कुत्र व्यवस्यतु

हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघाः

तस्य तद्वचनं श्रुत्वा काले साधु निवेदितम्

सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्तमाम्

सन्दिदेशाभिमतं नीलं नित्यकृतोद्यमम्

दिक्षु सर्वासु सर्वेषां सैन्यानामुपसङ्ग्रहे

यथा सेना समग्रा मे यूथपालाश्च सर्वशः

समागच्छन्त्यसङ्गेन सेनाग्राणि तथा कुरु

समानयन्तु ते सैन्यं त्वरिताः शासनान्म

स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु

त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः

तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा

हरींश्च वृद्धानुपयातु साङ्गदो भवान्ममाज्ञामधिकृत्य निश्चिताम्

इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान्